________________
नअर्थनिर्णयः। .
ग्यतासंवित्-शक्तिग्रहः । घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात् सा ग्राह्येत्यर्थः ॥ ३९ ॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः ॥ ६ ॥
॥ अथ नजनिणयः ॥
तथाचाऽयमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विषयः। योग्यता प्रति इदमत्रयोग्यमिति योग्यताव्यवहारे योग्यताविषयो यतोऽ. तः समयात् तद्व्यवहाराद्योग्यतायां बोधकतारूपशक्तः संवित ज्ञानं भवतीत्यर्थः। तत्र दृष्टान्तो-*मातापुत्रादियोग्यवदिति *(१)॥ यथाऽयमेतत्सम्ब. म्धीति व्यवहारस्तयोर्जन्यजनकभावनिश्चायकस्तद्वदित्यर्थः।।
अन्ये विदं हरिपद्यमित्थं व्याचक्षते । सम्बन्धशब्दे अयमेतत्स. म्बन्धीति व्यवहारे योग्यतां प्रति अर्थबोधजनकताऽवच्छदकधर्मव. स्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणो येषां सम्बन्धः स एव यांग्याताऽपरपायो विषय इति शेषः। स चानादिवृ. द्धव्यवहारापर्यायोऽस्मदादिसमयानिश्चीयते, न तु बोधजनकत्व. मेव शक्तिरेतबोधजननेऽयं योग्य इति व्यवहारात् । अत एवै. तच्छषे,
सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते ।
शब्दस्याऽर्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते ॥ इत्यन्तेनोक्ताऽर्थः स्पष्टीकृत इति । अधिकमन्यतोऽवधार्यम् ॥३९॥
इति भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम् ॥ ६ ॥ - समासे खलु भिन्नैवेत्यत्र पङ्कजशब्दवदिति वदता समासे त.
घटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम् । तथाऽ. नुपपन्नम्। यत्र समासघटकप्रत्येकपदस्थाऽनर्थकत्वं तत्र प्रत्येकश. क्तिसाचिव्याऽसम्भवात् । यथा नमसमासघटकनञः।
द्वयोराऽभिधाने हि व्यापारो नैव विद्यते । इत्युक्तेः॥
एवञ्च जहत्स्वार्थावाद इवेशस्थले उत्तरपदार्थाऽदिप्राधान्यस्य स्वरसतोऽनुपपत्तिरपीतीमां शङ्कां परिहा नअर्थनिरूपणमित्याह
(१) क्वचिन्मातापित्रादियोग्यवत् इतिपाठः। स च न युक्तः।