SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे गौणानां गुणे व्युत्पादनात् तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेव । आधुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव । अत एव 'ब्राह्मणाय देहि' इत्यर्थे 'ब्राह्मणं देहि' इत्यादिकं लक्षणयापि न साधुरित्यादि विस्तरेण प्रपञ्चितं भूषणे ॥ ३८ ॥ अतिरिक्तशक्तिग्रहोपायमाह - सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ॥ समयाद् योग्यतासंविन्मातापुत्रादियोग्यवत ॥ ३९॥ सम्बन्धो विषयः । योग्यतां प्रति योग्यता - सम्बन्धि शब्दं प्रति योग्यता विषय इति । समयाद्-व्यवहारात्, यो ३३४ भावः ॥ *गौणानामिति ॥ शुक्लादिशब्दानामित्यर्थः ॥ गुणे= स्व• शक्ये शुक्लादिरूपे ॥ * व्युत्पादनादिति* ॥ “गुणवचनेभ्यो मतुपो लुक्" इति स्मृत्या, " गुण शुक्लादयः पुंसि ” इत्यादिकोशेन चेत्यर्थः। तत्पुरस्कारेण= नीलाssद्यर्थपुरस्कारेणेत्यर्थः ॥ प्रवृत्तौ = गुणिनि प्रयोगे । शक्याऽर्थस्य बाधे अन्वयानुपपत्तिप्रतिसन्धानात्तैर्लक्ष्यार्थोपस्थापनेऽपि शक्यार्थमादाय तेषां साधुत्वं नानुपपन्नम् । शक्याऽर्थपुरस्कारेण तेषां शास्त्र व्युत्पन्नत्वादित्यर्थः। गौणपदस्य निरूढलाक्षणिकपदोपलक्षणत्वाश्च न गङ्गायां घोष इत्यादौ गङ्गादिपदानामसाधुत्वमिति भावः ॥ *आधुनिकानामिति ॥ ऐच्छिकयत्किञ्चित्सम्बन्धेन शास्त्रकृता तात्प विशेषेण प्रयुक्तानामित्यर्थः ॥ ३८ ॥ ननु शक्तिग्राहकयोः कोशव्याकरणयोर्विद्यमानत्वाच्छक्तिग्रहो. पायकथनं व्यर्थमत आह *अतिरिक्तेति ॥ कोशव्याकरणाभ्या मतिरिक्तो यः शक्तिग्रहोपायस्तमित्यर्थः । तथाचाऽनधीतव्याकरणानां तेन शक्तिग्रहाऽसम्भवात् तदर्थ व्यवहाररूपमप्युपायमाहेतिपर्य्यवसानान्न वैयर्थ्यमिति भावः । एतेन ग्रन्थकृताऽतिरिक्तशक्तेरनङ्गीकारेण तदूग्रहोपायप्रदर्शनं व्यर्थमित्याशङ्कापि समाहिता । विषयपदाध्याहारेण मूलं व्याचष्टे *सम्बन्धो विषय इति* ।।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy