________________
शक्तिनिर्णयः ।
३३३
Sवच्छेदिका जातिः । तज्ज्ञापकञ्च कोशादि व्याकरणादि च । पत्रमेव च राजसूयादेर्ब्राह्मणे फलाऽजनकत्ववद् गवादिशब्दानां नाश्वादौ साधुत्वमिति (१) सङ्गच्छते । आधुनिकदेवदतादिनानामपि, "अक्षरम्" इत्यादिभाष्येण व्युत्पादितत्वात् साधुत्वम् । एवञ्च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुरिति पर्यवसितम् (२) ।
तत्र प्रमाणं तु "एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोकं कामधुग् भवति" इति “एकः पूर्वपरयोः” (पा०सु०६। ११६४ ) इत्यत्र भाष्यपठितश्रुतिः । सम्यग् ज्ञातःसाधुत्वेन ज्ञातः । यदिह परिनिष्ठितं तत् साध्वित्यर्थापत्तिलभ्यवाक्येन । अतः शास्त्रान्वितः शास्त्र व्युत्पादनमार्गेणाऽभिसंहितः । सुप्रयुक्तः शिक्षायुक्तमार्गेण प्रयुक्त इति तदर्थः । " ते हेऽलय इति कुर्वन्तः पराबभूवुः " ॥ इति श्रुतिश्च ॥ यदि च कत्वादिना साङ्कर्य्यान्न तस्य जातित्वमिति विभाव्यते तदाऽस्तूपाधिरिति भावः ॥
*तज्ज्ञापकमिति* ॥ तदभिव्यञ्जकमित्यर्थः । यथैतत्तथोक्तम् । व्याकरणादिपदाच्छिष्टप्रयुक्तत्वपरिग्रहः ॥ *एवमेवेति ॥ तत्तदपुरस्कारेण तत्तच्छब्दानां साधुत्वपर्य्यवसानलाभनैवेत्यर्थः ॥ *फलाजनकत्ववदिति* | क्षत्रियाऽधिकारिकृतस्यैव तस्य फलश्रवणादिति भावः ॥ #साधुत्वमिति ॥ गवाद्यर्थपुरस्कारेणैव गवादिशब्दानां प्रयोगे पुण्यजनकत्वरूपं साधुत्वमित्यर्थः । नन्वाधुनिकदेवदत्ताद्यर्थपुरस्कारण देवदत्तादिशब्दानां शास्त्रे व्युत्पादनात् तेषां देवदत्तादौ साधुता न स्यादत आह* आधुनिकति* ॥ * द्वयक्षरं मिति* || "घोषवदाद्यन्तरन्तःस्थं द्वयक्षरं चतुरक्षरं वा पुरुषस्य नाम कृतं कुर्य्यान्न तद्धितम्" इति भाष्यस्थस्मृत्येत्यर्थः । तत्तद्देशभाषाऽनुसारेण क्रियमाणानां नाम्नां तु शास्त्राव्युत्पन्नत्वादसाधुत्वमेवेति
(१) अर्थविशेषनिबन्धनत्वात्साधुत्वस्येति भावः ।
(२) अपभ्रंशास्तु न तदर्थे व्युत्पन्ना इति न साधव इतिभावः