________________
३३२
वस्थ्यात् ।
दर्पणसहिते वैयाकरणभूषणसारे
किञ्चानुपदेऽवच्छेदिका । सा च पर्य्यायेष्विव भाषायामप्यन्यान्यैवेति कस्तयोर्विशेष इति विभाव्यं सूरिभिः । तथाच संस्कृतत्रद् भाषायाः सर्व्वत्रैकत्वेन प्रत्येकं शब्दाः शक्ता एव । न च पर्य्यायतया भाषाणां गणनापत्तिः । साधूनामेव (१) कोशादौ विभागाभिधानात् ।
नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति ॥ पुण्पजननबोधनाय साधूनां, “साधुभिर्भाषितव्यम्" इति विधिः । पापंजननबोधनाय “नासाधुभिः" इति निषेधः । तथाच पुण्यजननयोग्यत्वं साधुत्वम् । तत्र पापजननयोग्यत्वमसाधुत्वम् । जनकता
वान तत्र शक्तिरित्यर्थः ॥ सकलदेश शिष्टपरिगृहतित्वमेव विनिगमकमत आह-अवच्छेदकेति * ॥ बांधजनकतावच्छेदिकेत्यर्थः ॥ *तयोरिति* ॥ साध्यपभ्रंशयोरित्यर्थः ।
सकलशिष्टपरिगृहीतत्वं तु न विनिगमकम् । "शवतिर्गतिकर्माकम्बोजेषु प्रयुज्यते । विकार एवैनमार्य्या भाषन्ते” इति भाष्यात्तत्तः देशनियतसंस्कृतेषु शक्तिसिद्ध्यनापत्तेः । वाचकस्य व्यञ्जकतायामालङ्कारिकाणां प्राकृतभाषोदाहरणस्यासङ्गतत्वापत्तेश्च । अत एव तत्तद्देशीयशिष्टानां तत्तद्भाषासु निस्सन्दिग्धशक्तत्वप्रत्ययः सङ्गच्छते । न चाऽसौ भ्रमः । बोधकाभावादिति भावः । उपसंहरति-तथाचेति* ॥ एवं=अपभ्रंशानामपि शक्तत्वे ॥ तेषात् = अपभ्रंशानाम् ॥ *साधुना स्यादिति ॥ शक्तत्वस्यैव साधुत्वादिति भावः । साधूनेव प्रयुञ्जीतेत्यादिरूपश्वेत्यर्थः ॥ *नाऽसाधुभिरित* ॥ “ नापभ्रंशित वै न म्लेच्छितवै" इत्यादिनिषेधविधिभिरित्यर्थः ॥ योग्यत्वं जनकता - वच्छेदकधर्मवत्त्वम् ॥ तत्र= साधुशब्दे ॥ *जातिरिति ॥
(१) साधूनामेवेति । अत एव " समानायामर्थावगतौ शब्दैश्चापशब्दैश्व शास्त्रेण धर्मनियमः" इति पस्पशाह्निकस्थं भाष्यं संगच्छते ।