________________
शक्तिनिर्णयः ।
अनियदर्शिना(१) त्वस्मिन् वादे बुद्धिविपर्ययः ॥ इति । अवाचकः = अबोधकः । बुद्धिविपर्ययः = एते एव वाचका नान्ये इति विपर्यय इयर्थः । किञ्च विनिगमनाविरहाद् भाषायामपि शक्तिः । न च तासां नानात्वं दोषः । संस्कृतव. न्महाराष्ट्रभाषायाः सर्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहताद.
त्वात् । तथाच विगुणेष्वभिधातृषु सत्सु परम्परया येवर्थेषु प्रसि. द्धिमागता इत्यर्थः ॥ * दैवीति* ॥ संस्कृतरूपेत्यर्थः ॥ अशक्तैःकरणाऽपाटवद्भिः ॥ व्यवकीर्णा उच्छिन्नाऽनुपूर्वीका कृतेत्यर्थः॥ अ. नित्यदर्शिनाम्-शब्दाऽनित्यत्ववादिनाम् ॥ अस्मिन् वादे-शक्तिवि. वादे इत्यर्थः ॥
ननु, तेषां साधुरवाचक इत्यनुपपन्नम् । यस्मिन्नर्थेऽपभ्रंशाः प्रय. ज्यन्ते तद्वाचकत्वस्य साधुषु सर्वसम्मतत्वादतो व्याचष्टे-* अबोध. क इति* ॥ व्यवहितः साधुन तत्र बोधकः किन्तु साक्षादपभ्रंशा एव तत्तदानुपूर्वीमत्त्वेन वाचका इति भावः ।।
नन्वियं अपभ्रंशरूपा वाग् आभधातृवैगुण्येनोच्छिन्नाऽनुपूर्वीकाऽपि दैवी संस्कृतरूपैव । नैयायिकानां त्वस्या अबायकत्वे भ्रमएव । पारम्पयादित्युपादनातू साधुतादात्म्यभ्रान्तिमूलकशक्तिभ्र. मेण बोधकत्वसम्भवादित्यर्थकं देवीवायकोर्णयमित्यपि पूर्वोक्ता न्तिमकल्पस्यैवोपोद्वलकम् । नचैवं, तेषां साधुरवाचक इत्यनुपपनम् । तत्कल्प आरोपितसाधुत्वकाद्यपभ्रंशानां बोधकत्वेन साधुस्मरणाद बोधाऽनभ्युपगमात । तेषामित्यादः साधुतादात्म्यारोपविष. यास्त एव प्रसिद्धार्थानां बोधका, न तु तत्तदानुपूर्वीमत्वेन बोधका इत्यर्थात्तस्मान्नोक्तयुक्त्यापभ्रंशानां तत्त्वेन वाचकतासिद्धिरत आह*किश्चेति* || तासाम्भाषाणाम् ।। *दोष इति* ॥ तथाच गौर (१) अनित्यदर्शनां त्विति । अयं भावः । कार्याःशब्दा इति मते शा. स्त्रमात्रसमाधगम्यमर्थबोधकत्वमित्यर्थादपभ्रंशेषु शास्त्रेऽस्य तद्ग्राहकस्याभावात् , साधव एव वाचका नापभ्रंशा इति भ्रमः सम्भ. वतीति। .