SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३३० दर्पणसहिते वैयाकरणभूषणसारे स्याऽबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिगिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाचेति । उक्तश्च वाक्यपदीये पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः ॥ दैवी वाग व्यवकीर्णेयमशक्तैरभिधातृभिः । किं बोधकत्वरूपशक्तिभ्रमात तत्र बोध उपपद्यत, उतेश्वरेच्छा. रूपशक्तिभ्रमात । तत्र नाद्यः कल्प इत्याह-*बोधकत्वस्येति ॥ द्वि. तीये त्याह-* ईश्वरच्छेति * ॥ * सन्मात्रेति* ॥ मात्रपदं कृत्स्नाs. र्थकम् । अपभ्रंशाद् बोधस्य सर्वानुभवसिद्धत्वेन बोधकत्वेनेश्वरे. च्छाया अपि तत्राबाधने तामादायाऽपि न शक्तिशानस्य भ्रमत्वसम्प. त्तिः । प्रतीतेभ्रमत्वे विषयबाधस्यैव तन्त्रत्वादिति भावः । ' ननु लाक्षणिक इवाऽपभ्रंशेऽपि वाचकव्यवहाराभावेन तव्यावृ. त्येश्वरेच्छारूपशक्तस्तत्र भ्रमे बाधकभावोऽत आह-* शक्तरिति* ॥ *भ्रमासम्भवाचेति* ॥ तत्पदविशेष्यकतदर्थबोधजनकत्वप्रकारकेच्छायास्तत्पदविशेष्यकत्वन गृहीतायाःपदान्तरविशेष्यकत्वासम्भवेन तभ्रमाऽसम्भवादित्यर्थः । यथाश्रुताऽभिप्रायेणेदम् । परिष्कृतविशे. प्यत्वरूपायास्तत्सम्बन्धावच्छिन्नावच्छदकत्वरूपायाः पदार्थान्तर. रूपाया वा शक्तस्तत्र भ्रमे बाधकाऽभावादिति बोध्यम् । तथाच भ्रमेणापि बांधस्य दुरुपपादत्वेन भाषायां शक्तिरावश्यिकोत भावः । अस्मिन्नपि पक्षे हरिसम्मतिमादर्शयति-*उक्तश्चेति* ॥ * पारम्पोदिति* ॥ स्वार्थे ध्यञ् । विगुणेष्विति हेतुगर्भ विशेषणम् । वैगुण्यं च करणापाटवरूपम् । अभिधातृवैगुणस्याऽपभ्रंशनियामक. एवं च तत्तच्छब्दत्वादिना पूर्वमनुभवेऽपि नेष्टसिद्धिः । तथानुभववतां तथाविधस्मरणसम्भवेपि तस्य शाब्दबोधानुपयुक्तत्वात् तत्तदर्थबोधकत्वेन स्मरणस्येवोपयोगित्वात् इति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy