SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ...... शक्तिनिर्णयः । । ३२९ व्यवहारादे(१)स्तुल्यत्वादिति चेत् सत्यम् । तत्तद्देशभेदभिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता शङ्या। तेषां सर्व्वदेशेष्वेकत्वाद् विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न हि अपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेः । एवञ्च शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादीनां मतं तन्मतेनैव द्रष्टव्यम् । इदानी स्वमतमाह-वाचकत्वाविशेषे वेति ॥. अयं भावः । अपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मरणात् ततो बोधः । तानविदुषां(२) पामराणामपि बोधात् । तेषां साधोरबोवाच । न च शक्तिभ्रमात् तेभ्यो बोधः । बोधकत्व तेषाम् साधुपर्यायाणाम् ॥ *एकत्वादिति* ॥ एकजातीयत्वादि. त्यर्थः। तथा एकजातीयत्वं येन तथापि विनिगमकाभावाच्छक्ति. कल्पना स्यादिति भावः ॥ ___ *अन्यथेति ॥ एकजातीयस्य शक्तिकल्पनायामतन्त्रत्व शक्ति. मत्वाऽविशेषात् । साधूनामिवाऽपभ्रंशानामाप कोशादौ प्रतिपादनं प्रसज्यतेत्यर्थः ॥ * तन्मतनवति ॥ ते साधुष्वनुमानेनेत्याधुक्तह. रिमतेनैवेत्यर्थः ॥ अपभ्रंशाद् बोधस्योक्तरीत्यापपादितत्वात् तत्र शतिकल्पनं ग्राहकमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकाराऽसम्भवं दर्शयति-*अयम्भाव इति* ॥ *तानिति* ॥ साधुशब्दानि. त्यर्थः । अज्ञानतुमाह-* पामराणादिति * ॥ *बोधादिात* ॥ व्यवहारेण तेषां बोधाऽनुमानादित्यर्थः॥ . तथाचानधीतशास्त्राणां तेषां साधुत्वप्रकारकशब्दज्ञानाऽसम्भ. वेन तत्र साधुशब्दात्तषां बोधोदयः स्यात् । स एव नास्तीत्याह*तेषां साधोरिति* ॥ *शक्तिभ्रमादिति* ॥ अर्थनिरूपितायाः सा. धुशब्दनिष्ठायाः शक्तरपभ्रंशे भ्रमादित्यर्थः। .. (१) आदिपदमाप्तावाक्यादिग्राहकम् । (२)अविदुषामिति । तत्तदर्थ बोधकत्वेन ग्रहशून्यानामित्यर्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy