________________
३२८
दर्पणसहिते वैयाकरणभूषणसारे ... न शिष्टैरनुगम्यन्ते पाया इव साधकः। ::
न(१) यतः स्मृतिमात्रेण तम्मात् साक्षादवाचकाः ॥ .. (२)अम्बाऽम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ इति । नवपभ्रंशानां साक्षादवाचत्वे किं मानम् । शक्तिकल्पक
वच्छेदकत्वादत्र तु साधुगतायास्तस्यास्तत्वमिति भेदादिति भावः । __यत्तु शब्दार्थयोस्तादात्म्यं शक्तिरिति स्वोक्ताऽर्थे तादात्म्यमि. त्यादिहारकारिकार्द्धस्थापष्टम्भकतयोपन्यसनं तन्मुधैव । तदात्म्यस्य शक्तित्वेऽपि शब्दनिष्ठतादात्म्यज्ञानस्याऽर्थाबोधकत्वेन तस्य शक्तिः त्वाऽसम्भवात् । उपक्रमोपसंहारपालोचनया साधुशब्दतादात्म्य भ्रान्त्याउपभ्रंशानामर्थबोधजनकत्वामिति पक्षान्तरपरतयैव तव्याख्यानस्यौचित्यादिति। . अवाचकत्वे युक्तिमाह-*न शिष्टैरिति ॥ यतस्तेऽपभ्रंशाः साध. वः पर्याया इव शिष्टैः स्मृत्यादिना प्रतिपाद्यन्तेऽतो न वाचका इत्यर्थः। ते साधुध्वित्याधुक्तमर्थ विशदयति-*अम्बाम्बेत्यादि ॥ अ. व्यक्तमिति भाषणक्रियाविशेषणम् । तद्विदां अव्यक्तशब्दवेतृणां, व्यक्ते साधुशवदे । अस्य, स्मृते सतीति शेषः । निश्चयः तदर्थशाब्दबोधो भवतीत्यर्थः ॥ *एवमिति* ॥ इत्थमेवेत्यर्थः ॥साधौगवादिशब्दे ।। अपभ्रंशः गाव्यादिः ॥ तन-असाधुशब्देन ॥ साधुव्य. वहितः साधुस्मृतिद्वारकः । कश्चित प्रसिद्धाऽम्बादिरूपः। अभिधीयते-बोध्यते इत्यर्थः । उक्तमेवाऽर्थ द्रढयितुमाशङ्कते-*नन्विति ॥
(१) अर्थ बांधयतः साधुशब्दस्य, स्मृतिमात्रेण स्वार्थबोधोप. पत्तिरिति न साधुन्वं तेषामित्यर्थः ।
(२) अत्र "बंबबेति यदा बाल" इतिपाठो दृश्यते। युक्तश्च सः।