________________
शक्तिनिर्णयः । ताया व्याकरणाधिकरणे प्रतिपादनादियाशङ्कां द्विधा समाधत्ते
असाधुरनुमानेन वाचकः कैश्विदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः॥३८॥
असाधुः गाव्यादिस्नुपानेन साधुशब्दमनुमाय, वाचको बोधकः कैश्विदिष्यते । तथाच लिपिवत्तेषां सधुस्मरण एवोपयोगो, न तु साक्षात्तद्वाचकत्व(१)मतो, न साधुत्वमिति भावः। उक्तं हि वाक्यपदीये
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः ॥
*द्विधेति ॥ अपभ्रंशानामुक्तशक्तिमत्त्वाऽभावव्यवस्थापनेन सा. धुत्वस्याऽन्यथा निर्वचनेन चेत्यर्थः। भूले, * अनुमानेन वाचक इति* ॥ अनुमानमत्र स्मृतिः । अनु पश्चान्मान मितिरिति व्युत्पत्ते. नं तु व्याप्तिज्ञानम् । तच्छ्न्यानामपि शाब्दबोधदर्शनात् । गाव्या. धडपभ्रशानां गवादिशब्दविकृतित्वेनोद्बोधकविधया झटिति प्रकृतिस्मारकत्वादिन्याशयेन व्याचष्टे-*अनुमानेन साधुशब्दमिति* *अ. नुमायति* ॥ स्मृत्वेत्यर्थः॥ वक्ष्यति च-'तेषां सधुस्मरण एवोपयो. ग' इति । अपभ्रशानां साक्षादबोधकता तु न, शब्दजनकसाधुत्वस्या. भावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वति भावः। तत्र हरिसम्म. तिमाह-*उक्तं हीति* ॥ ते-अपभ्रंशाः ॥ साधुध्विति विषयसप्तमी साधुविषयकस्मरणेनेत्यर्थः॥ *प्रत्ययेति ॥ पचाद्यर्थबोधकारणानीत्यर्थः ॥ * तादात्म्यमिति* ॥ साधुगवादिशब्दतादात्म्यप्रकारका ज्ञानविषयतामापाद्य वेत्यर्थः । एवकारो वाऽर्थे । गोपदे उच्चारणीये करणापाटवेन गावीत्युच्चारितं वस्तुतो गोपदमेवेदमिति तादात्म्ये. न भासमाना गाव्यादिशब्दा गवादिरूपार्थस्य प्रकाशका इत्यर्थः। न च वक्ष्यमाणकल्पाऽभेदः । तत्राऽपभ्रंशनानानुपूल्यों एव शक्तताऽ.
(१) साक्षात् तब्दांधकत्वरूपं तद्वाचकत्वमित्यर्थः।