SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णय: इत्यत्र पति गङ्गा पापं हरतीति वाक्ये गङ्गापदात् स्वशक्रयप्रवाहाऽवयवावयविभावसम्बन्ध रूपलक्षणाग्रहाऽऽहित संस्कार सहकु तादुपस्थितोद्धृतजले पानकर्मत्वाऽन्वयः | तात्पर्य्याऽनुपपत्तिरत्र वा सर्वत्र लक्षणाबीजम् । तदुन्नायकत्वेनैवोक्तनैराकाङ्क्षাदीनामुपयोगः । अत एव यष्टीः प्रवेशयेत्यादौ यष्ट्यादिपदानां तद्धारणकर्त्तरि लक्षणा । यष्टिषु प्रवेशकर्मत्वाऽन्वयानुपपत्त्यभाasपि भोजनादिप्रकरणोनीततात्पर्य्याविषयभोजन प्रयोजनकप्रवे. शकर्मत्वानुपपत्तेस्तत्र जागरुकत्वात् । एवं कुन्ताः प्रविशन्ति' 'छत्रिणो यन्ति' इत्यादिष्वप्युक्तम् । ननु छत्रिशब्दस्य पदद्वयघटितत्वेन वाक्यतया न्यायनये कथं तस्य लक्षणा, शक्याप्रसिद्धेः । किञ्चाऽत्र नैकसार्थगन्तृत्वं लक्ष्यताऽवच्छेदकम् । यान्तीत्यस्यानन्वयापत्तेः ॥ गन्तृत्वेनोपस्थितस्य गमनाकाङ्क्षाविरहादिति चेत् सत्यम् । सम्बन्धिशक्तमतुप एव तत्रैकसार्थसम्बान्धलक्ष्यकत्वाभ्युपगमेनोकदोषद्वयस्याप्रसक्तेः । न च छत्रपदवैयर्थ्यम् । तस्य तात्पर्य्यग्राहकत्वेन सार्थक्यात् । 'लाक्षिणक पदं नाऽनुभावकम्' इति सम्प्रदायः । स्वशक्याऽनुभवं प्रत्येव पदा नां कारणत्वम् । इतरपदार्थेन सह स्वशक्याऽनुभावकत्वेन अश क्यादघोषादिपदादेव तीराऽनुभवोपपत्तेर्न शक्यादशक्योपस्थिति लक्षणेत्यभ्युपगच्छतां मते स्वजन्योपस्थितिसम्बन्धेनैव पदस्याऽनुभावकतया तस्याश्च तीरादावभावात्तस्याऽननुभावकत्वमिति त न्मूलम् । न च तत्सम्भवति । शक्योपस्थितान्तीरादेरप्रकृतार्थतया तत्र प्रत्यार्थान्वयासम्भवात् । ३२५. वस्तुतस्तु लाक्षणिकं पदमुद्देश्यविधेयभावेनान्वयाजनक मिटबेव तदर्थः । उद्देश्यविधेयभावेनान्वये शक्तिमत्वस्यैव तन्त्रत्वात् । अ तएव, "नविधौ परः शब्दाऽर्थ" इति सङ्गच्छते । किञ्च । तन्तुसंयोगहेतुत्वतात्पर्य, 'तन्तुः पटं जनयति' इति सर्वलाक्षणिकवाक्येऽन्वयाऽनुभवाऽपलापाऽऽप सेर्लाक्षणिक प्रदस्यानुभावकत्वमेव न्यास्यम् । गङ्गापदाचीरमनुभवामीति प्रतीतेश्च तादृशप्रवादे नाऽभिनिवे टव्यम् । ननु 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं पदं प्रयोक्ष्यामह' इति न्यायात्तीराद्यवाचकगङ्गादिपदाऽभिधानमनुचितम् । प्रयोजनजिज्ञा
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy