________________
३२४ दर्पणसहिते वैयाकरणभूषणसारे सपिताकाङ्क्षा मवदनपदेऽतस्तत्र वदनपदं लक्षणयाह्लादकपरम् । तदु. पस्थिताहादकत्वाऽवच्छिन्नास्याभेदान्वयो वदन अनुशासनबोधितनैराकालयमपि क्वाचसथा । यथा,
कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ इत्यत्र भुजिधातारवनवाचकादात्मनेपदनिराकाजतया वाच्या. र्थबुद्धौ प्रतिबद्धायां तद्धातुना स्वार्थपालनसम्बन्धिशासनं लक्ष्यते । आत्मनेपद समभिव्याहृतभुजत्वावच्छदेनाऽऽख्यातबोध्यकत्रन्वित. पालनबोधस्वरूपाऽयोग्यत्वरूपनैराकालयस्य, "भुजोऽनवने" ( पा० सु०१।३।६६) इति सूत्रण बोधनात् । तत्र कवलपदेन तात्कालिकरामाऽभिन्नपृथिवीपालकर्तृकभोगकर्मनिष्ठाऽन्योन्याऽभावप्रतियो। गिताऽनवच्छेदकैकत्वयोगिनी व्यक्तिरभिधीयते । एवकारेण पृथिव्यन्ययोगव्यवच्छदः ।
एवञ्च तत्कालिकरामाभिन्नपृथिवीपाल कर्तृकभोगकर्मनिष्ठान्यो. न्याभावप्रतियोगितानवच्छदकैकत्वाविशिष्टाभिन्नपृथिव कर्मकभोगकर्ता पृथिव्यन्यस्त्रीकर्मकभोगाकर्ता रामाभिन्नः पृथिवीपाल इति न्यायनये वाक्याऽथबोधः । 'द्विरेफा मधुरं रौति, 'पिकः कूजति कानने' इत्यादौ तु मुख्याऽर्थबाध एव लक्षणाबीजम् । किन्तु सा ललितल. क्षणेत्युच्यते । लक्ष्यसमासाऽर्थरेफद्वविशिष्टघटितत्वात्तस्याः।
तथाहि । येन पुरुषेण द्विरेफादपदस्य प्राणिविशिष्ट शक्तिर्न गृहीता, किन्तु द्वौ रफौ यत्रेति व्युत्पत्त्या रेफद्वयसम्बन्धिभ्र. मरपदे शक्यसम्बन्धरूपलक्षणा गृहीता तस्य प्राणिविशेषविशे. व्यकमधुरारावकर्तृत्वशाब्दबोधस्य तात्पर्याविषयस्यानुपपत्त्या द्वि. रेफपदात् स्वलक्ष्यरेफद्वयघटितपदवाच्यत्वलक्षणयोपस्थिते. प्रा. णिविशेषे मधुराऽऽरावकर्तृत्वान्वय इति द्विरेफपदेन भ्रमरपदमुप. स्थाप्यते । तेन च प्राणिविशेषोपस्थितिरिति तु न सम्यक् ।प्र. त्ययानामिति व्युत्पत्तेस्तत्र प्रत्यायर्थान्वयाऽसम्भवात् । भ्रमरपदे लक्षणायामपि न तेन तदुपस्थितिरुचरितस्येवाऽथप्रत्यायकत्वादि। त्यप्याहुः । एवं, "पिकः कूजति कानने” इत्यादावपि बोध्यम् । एवं
गङ्गा हरति चै पुसां दृष्टा पीताऽवगाहिता। .....