SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। नचाऽत्यन्तभेदे घटः पटोऽत्यन्ताऽभेदे घटो घट इति सामाना. धिकरण्यादर्शनाद्भेदाभेदवादोपपत्तिरिति शङ्यम् । 'शब्दो घट' इत्याद्यननुभवात् 'अघटो न शब्दो', 'घटोन घट' इत्याद्यनुभवाच भेदस्यैव सिद्धेः । 'ओमित्येकाक्षरम्' इत्यादौ त्वक्षरपदस्य तत्प्रति. पाचे निरूढलक्षणायाः सामानाधिकरण्योपपत्तस्तद्वाक्यस्योपासनाकाण्डस्थतया भदेऽप्यभेदोपासनपरतयोपपत्तेश्चत्यन्यत्र विस्तरः । - सा च शक्तिस्त्रिधा-योगो, रूढिोगरूढिश्चति । प्रकृतिप्रत्यय. निरूपिता तत्तदर्थे या शक्तिः संयोगस्तन्मात्रेणार्थबोधकं पदं यौगि. कमिति व्यवाहयते । यथा पाचकादिपदम् । तद्धटकधातुप्रत्यययोः पाकादों कादिकारक च व्युत्पन्नत्वात् । अवयवार्थाप्रतीतो केवल. समुदायस्य तत्तदर्थे या शक्तिः सा रूढिस्तयार्थबोधकं पदं रूढम् । यथा मणिनूपुरादि । अश्वगन्धादिपदात्तु कदाचिदोषधिनिष्ठसमु. दायनिरूपितशक्त्योषधिबोधः । कदाचित्तु अश्वस्य गन्धोऽस्यामिति व्युत्पत्त्या वाजिशालादिबोधोऽवयवशक्त्यति यौगिकरूाढः पृथङ्नो. क्ता उक्तयोरेवान्तर्भावात् ।। ___ "रूढिोगापहारिणी" इति तु प्रकरणाद्यभावे लाक्षणिकं तद् । वाजिशाला इत्यपरे । यत्रावयवार्थसहकता समुदायशक्तिरर्थबोधिका सा योगरूढिस्तयार्थबोधकं पदं योगरूढम् । यथा पङ्कजादिपदम् । तत्र पङ्काधिकरणकोत्पत्त्यांश्रयपद्मत्वविाशष्टचोधाद् अनुपपत्तिप्रति. सन्धानं विनापि पद्मबोधान्न तत्र लक्षणावसर इत्यादि प्रश्चितं पूर्वमेव गङ्गायां घोष इत्यादौ गङ्गापदस्य तीरे शक्यसामीप्यरूपलक्षणा. ग्रहे तदाऽऽहितसंस्कारजन्यतीरादिस्मृत्या तीराऽधिकरणकघोष. शाब्दबुद्धिः। लक्ष्यव्यवहारान्यथानुपपत्त्या लक्षणाया अप्यवश्यम. भ्युपेयत्वात् । अन्यथाऽनुपपत्तिप्रतिसन्धानं च तत्कल्पने बीजम् । 'यथोके क्वचिनिराकाङ्क्षत्वमपि तबीजम् । . यथा “वदनं तस्या वदनं मुखममुखं भाति चान्यासाम्" इत्यत्र तादात्म्यसम्बन्धावच्छिन्नवदनत्वावच्छिन्नप्रकारवानिरूपितवदनत्वावच्छिन्नविशेष्यता. को बोधो न सम्भवति । तादात्म्यसम्बन्धावच्छिन्नतादृश. प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ विधेय. तावच्छेदकभेदस्य तन्त्रत्वादिति वदनत्वावच्छिन्नार्थकवदनपदनि.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy