SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२२ दर्पणसहित वैयाकरणभूषणसारे 'यश्च निम्बं परशुना' इत्यत्रौचित्यात् परशुपदस्य छेदनाऽर्थत्वम् । 'भात्यत्र परमेश्वर' इत्यत्र राजधानारूपदेशात् परमेश्वरपदस्व राज. परत्वम् । _ 'चित्रभानु ति' इत्यत्र चित्रभानुपदं रात्रौ वह्नर्दिवा सूर्यस्य बोधकम् । 'मित्रं भाति', 'मित्रो भाति' इत्यादी व्यक्त लिङ्गादाद्ये सुः हृदोऽन्त्ये सूर्यस्य बोधकं मित्रपदम् । 'स्थूलपृषीमनड्वाहीम्' इ. त्यत्र स्वरात् तत्पुरुषबहुव्रीह्यर्थनिर्णयः । आदिपदात् षत्वणत्वादि । यथा, 'सुसिक्तम्' इत्यत्र सुशब्दस्य कर्मप्रवचनीयस्य पूजाऽर्थक. कत्वं, सुषिक्तमित्यत्रोपसर्गस्य न्यासाऽर्थकत्वम् । एवं, 'प्रणायक' इ. त्यत्र णत्वात् प्रणयनकर्तबोधः । 'प्रनायक' इत्यत्र तदभावात् प्रग. तनायकबोध इत्याद्यूह्यम् ॥ - यत्तु पदपदार्थयोर्योऽर्थः स शब्दो यः शब्दः सोऽऽर्थ इतीतरे तराऽध्यासमूलकतादात्म्यं भेदव्यापृक्तमस्ति । तस्य वाचकः प्रण. वादि । 'ओमित्येकाक्षरं ब्रह्म' इति भेदाभेदयोर्दर्शनात् । आधे भेद. स्योद्भूतत्वविवक्षया षष्ठी, अभेदस्योद्भूतत्वविवक्षया त्वन्त्ये प्रा. तिपदिकाऽर्थे प्रथमा । स एव सम्बन्धः पदतर्थयोर्वाच्यवाचकभा. वव्यवहारनियामकः। शक्तिस्तु सङ्केतः पदार्थाऽन्तरं वति भट्टानु. यायिमतम्। तत्तु न साधीयः । अध्यासमूलकस्याऽसतस्तस्य सम्बन्धत्वास. म्भवात् । भेदाभेदयोः परस्पराभावरूपतया विरुद्धत्वेनैकत्रासम्भ. वाच । कस्यचित् तथाऽध्याससम्भवेऽपि सर्वेषां तथाध्यासे मा. नाभावात् । घटपदनाशेऽपि घटस्योपलभ्यमानतया तयोस्तादात्म्यस्थासम्भवदुक्तिकत्वाञ्च । . न च पाकरक्ते प्राक् श्यामेऽपि पाकोत्तरमयमिदानीं न श्याम इ. ति प्रतीतर्भेदाभेदो न विरुद्धाविति वाच्यम् । अव्याप्यवृत्तीनां तेषा. मेकाऽवच्छेदेन विरोधानपायात् । अत एव, तत्र देशकालावच्छेद. कभेदेनैव 'अयमिदानीं न श्यायो,' 'वृक्षो मूलेन कपिसंयोगी,' इति, न तु तदनवगाहिनो घटोऽयं न श्यामो वृक्षो कपिसंयोगीति प्रतीतिः। किन्त्वभेदवादे घटपदनाशे घटनाशापत्तिरेव शब्दवदर्थस्यापि श्रोत्रेन्द्रियग्राह्यतायाः शब्दस्य चक्षुरादीन्द्रियग्राह्यतायाश्चापत्ति. रिति बहुव्याकोपः । शब्दस्य यथा न नित्यत्वं तथा वक्ष्यते ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy