SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। ३२१ जनादिपरिमाणप्रहेण पाश्चात्येन प्राथमिकाल्पपरिमाणग्रह इवाऽप्रा. माण्यं गृह्यते इति नैयायिकाः । प्रत्येकपदशक्तिप्रेहणैवाकालादि. सहकृतन वाक्याऽर्थबाधापपात्तरिति तदाशयः। - अन्ये तु पाक्याऽर्थशाक्तग्रहस्य प्रत्येकपदशक्त्युपजीव्यत्वात्ते. नैतबाधासग्भवेन प्रागजातशक्तिग्रहस्यैव बलवत्वमित्याहुः । .. वाक्यशेषात्तु, “यवैर्जुहोति" इत्यत्र-यवपदस्य दीर्घशूकविशिष्टे आर्याणां प्रयोगात् क्व शक्तिरिति सन्देहे, “यत्राऽन्या ओषधयो म्ला. यन्ते अथैते मोदमाना इवोत्तिष्ठान्त" इति वाक्यशेषेण दीर्घशूकविशिष्टे तनिर्णयः । विवरणस्य यथा शक्तिग्राहकत्वं तथा धात्वर्थनिरूपण उक्तम् । “इह सहकारतरौ मधुरं पिको रौति" इत्यादी प्रसिद्धसह. कारादिपदसन्निधानात् पिकादिपदानां कोकिलादौ शक्तिपरिधितिरि. ति । सैषा शक्तिर्नानार्थेषु संयोगादिना नियम्यते । तदुक्तं काव्य. प्रकाशे संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य सन्निधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । शब्दार्थस्याऽनवच्छेदे सन्देहे तन्निरासद्वारा विशेषनिर्णयस्य जनकाः संयोगादय इति तदर्थः। शक्योपस्थितानामनेकेषामकतरमात्रार्थतात्प-नर्णयद्वारा तत्तदर्थबोधजनकत्व तेषामिति भावः । तत्र सवत्सा धेनुरवसा धेनुरिति क्रमेण संयोगविप्रयोग. योरुदाहरणे । साहचर्य सादृश्यम् । सरशयोरेव प्रायशः सह प्रयोगादेवञ्च रामलक्ष्मणावित्यादावुभयोर्नामार्थयोर्युगपदेव साहब. र्यग्रहाधीनतात्पर्यग्रहेण विशेषाऽवगतिरिति नान्योन्याश्रयः । 'रामार्जुनगतिस्तयोः' इत्यादौ विराधेन सा । 'अञ्जलिना जुहोति' 'अञ्ज. लिनादिन्यमुपतिष्ठते' इत्यादी धात्वर्थवशात्तदाकाराऽअलिपरत्वम् । 'सैन्धवमानय' इत्यादो तु भोजनादिरूपप्रकरणेन सा । 'अक्ताः शर्करा उपदधाति' इत्यादौ 'तेजो वै घृतम् इत्यादिस्तुतिरूपालि. गादतपदस्य घृतसाधनाऽअने तात्पर्यावगतिः । 'रामो जामदग्न्य' इत्यादौ जामदग्न्यपदसन्निधानेन रामपदस्य परशुरामपरता । एवम् 'अभिरूपाय कन्या देया' इत्यत्राभिरूपतरायति सामर्यादवगम्यते ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy