________________
३२०
दर्पणसहिते वैयाकरणभूषणसारे
कतायां पर्याप्तैरनिवेशेन शक्यसम्बन्धसंसर्गकज्ञानस्यापि तेन क्रोडीकरणात् । परन्तु, पदनिष्ठप्रकारतानिरूपिततादृशसांसर्गिक विष यतायामर्थविशेष्यतानिरूपितत्वाऽनभ्युपगमान्न शक्तिसम्बन्धेन पदाऽभावप्रकारक बुद्धिप्रतिबध्यत्वं लक्षणाज्ञानस्य ।
"इन्द्रियाणाम्" इत्यादिहरिपद्यस्य त्वयमर्थः - इन्द्रियाणां चाक्षु पादिविषयेषु घटादिषु पुरुषप्रयत्नाऽनपेक्षा यथा योग्यता तदीयचाक्षुषादिकारणतावच्छेदकरूपास्ति तथाऽर्थैः साकमपि पदानां सम्ब यो योग्यता तच्छाब्दबोधजनकतावच्छेदकधर्मो, न तु जनकत्व मेवोक्तयुक्तेरिति न तद्विरोधोऽपीति सर्वममवद्यमिति ॥ तद्ग्राहकं च-व्याकरणस्मृत्यादि । तदुक्तम्
शक्तिग्रहं व्याकरणोपमानकोशातवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥इति । तत्र व्याकरणादिकं लाघवसहकृतमेव शक्तिग्राहकमिति नैयायिकमतम् । यतो लाघव सहकृतेन, “लः कर्मणि" ( पा० सू० ३ ४ ६९ ) इति सूत्रेण कृतावेव शक्तिः परिच्छिते, न तु कर्त्तरीति यथैतत्तथोतम् । एवं, “गुणे शुक्लादय" इति कोशेनापि लाघवसहकृतेन गुणे एव शक्तिर्निर्द्धार्य्यते न तु गुणिनि गौरवात् । गुणियोधस्तु शुक्लादि - पदेभ्यो निरूढलक्षणयेवेति च तदुक्तेः । निरूढ वं च प्रानिरुक्तम् ।
उपमानस्य तु सादृश्यज्ञानात्मकस्याऽतिदेशवाक्यार्थस्मृतिद्वारा गवयादिर्गवयादिपदवाच्य इति शक्तिपरिच्छेदकत्वम् । इदमेतदवाचकमित्याकाराऽऽप्तवाक्यादपि तद्ग्रहः । आप्तत्वं च तदर्थविषयकयथार्थज्ञानवत्त्वम् । व्यवहाराद् यथा प्रयोजकवृद्धेन घटमानयेत्युक्ते प्रयोज्यवृद्धेनाssनीत घटे पार्श्वस्थो, घटकर्मकानयनादिकार्य घटकर्मकानयनादिज्ञानसाध्यमित्यनुमिमीते । व्यवहारे व्यवहर्त्तव्यज्ञानस्य हेतुत्वात् । अनन्तरं तद्धेतुजिज्ञासायामुपस्थितं तद्वाक्यमेव तद्धेतुत्वेनाऽवधारयति । तस्य चाऽर्थासम्बद्धस्य तद्धेतुत्वानुपपत्यार्थेन साकं पश्चाद् वाक्यस्य सम्बन्धमवधारयति । सैव शक्तिरिति व्यवहियते ।
यद्यपि प्रथमं तेन वाक्यस्यैव वाक्यार्थेऽवधारितः सः, तथापि घटं नय गामानयेत्यावापोद्वापाभ्यां पश्चाजात प्रत्येकपदशक्तिग्रहेण प्राग्जातवाक्यशक्तिग्रहे चन्द्रोदज्ज्योतिःशास्त्राध्ययनजन्यशतयो