SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। मौरवलाघवादिचर्चा, न तु तस्य तद्रूपत्वसम्भवः । तथाहि । शा. ब्दबोधं प्रति वृत्तिज्ञानस्य हेतुतेति निर्विवादम् । सा च भवदुक्ता. र्थधीजनकत्वस्य वृत्तित्वेन सम्भवति तद्रूपायास्तस्याः शाब्दधीजनक. तायामनवच्छदकत्वात् । आत्माश्रयेण स्वस्यैव स्वावच्छेदकत्वा. सम्भवात्। किञ्च प्रयोज्यप्रयोजकव्यवहार इष्टाऽप्रयोज्यप्रवृत्त्यनुमिते प्रयोज्यघटानयनादिक्षाने उपस्थितत्वाच्छाब्दस्यैव हेतुतायामवधार्यमा. मरणायामसम्बद्धस्य कारणत्वानुपपत्या कल्प्यमानसम्बन्धस्य जन. कत्वात्मकत्वासम्भवः । स्वयमनुपपद्यमानत्वेन गृहीतस्य ग्रहीतुम. शक्यत्वात् । तस्मान्न बोधकत्वं शक्तिः। एवं न्यायमताभ्युपेता. ऽस्मात् पदादेतदर्थविशेष्यकबाधो भवत्वित्याकारकेश्वरेच्छाविषय. स्वस्याऽपि सङ्केतीयगङ्गापदजन्यत्वप्रकारतानिरूपितबोधत्वावच्छि. नोद्देश्यकतानरूापतविशेष्यत्ववृत्त्यवच्छेदकताधेयतासम्बन्धावच्छि. नावच्छेदकत्वपर्यावसितस्य न शक्तित्व, लक्षणोच्छेदापत्तः । पदात् तीरबोधी भववितीच्छाया अपि भगवतः सम्भवात् । तादृशाऽवच्छेदकतात्वेन शार्दू शक्तिज्ञानस्य कारणताकल्पने गौरवाश्च | तीरादिनिष्ठावच्छेदकतायाः पूर्वोक्तविशेष्यत्ववृत्त्यव्यवच्छेद. कतानिरूपितत्वेऽपि न विशेष्यवृत्यवच्छेदकतात्वेन तन्निरूप्यत्वं, किन्तु शुद्धाऽवच्छेदकतामात्रेणेति न तादृशशक्तिस्तीरे इति तु शि. ध्यप्रतारणामात्रम् । इच्छाविषयत्वं ज्ञानविषयत्वं वा शक्तिरिति वि. निगमनाविरहाच्च । तस्मात् पदपदार्थयोर्वाच्यवाचकभावव्यवहार. नियामकः सम्बन्धः पदार्थान्तरमेव । तस्य च लक्षणं व्यावृत्तस्यैव धर्मिग्राहकमानसिद्धत्वाल्लक्ष्यबोधा. र्थ शक्यसम्बन्धरूपलक्षणावृत्तरपि स्वीकार आवश्यकः । तज्ज्ञानस्य शाब्दबोधे हेतुत्वान्तरकल्पनप्रयुक्तगौरवं तु फलमुखत्वान्न दोषावहम् । अन्यथाऽनुपपत्तश्च । अत एव शक्यलक्ष्यव्यवहारः स्वरसतः सङ्गच्छते। अथवा शक्तिलक्षणाज्ञानयोः शाब्दरूपं प्रत्येकरूपेणैव हेतुता । त. थाहि । तच्छाई प्रति शक्तित्वाऽवच्छिन्नसांसर्गिकविषयतानिरूपिसतदर्थविशेष्यताकज्ञानत्वन हेतुता। शक्तिसम्बन्धेन, शक्यसम्ब. न्धन वा पदप्रकारकशाने शक्तः संसर्गत्वात । शक्तित्वनिष्ठावच्छेद.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy