________________
दर्पणसहिते वैयाकरणभूषणसारे
स्थितिहेतुरिति वाच्यम् । एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन है. तुत्वमसम्भवदुक्तिकामिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतु. रिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्त. म् । प्रयोज्यत्वस्थानतिप्रसक्तस्य दुर्चचत्वाचेत्यादि विस्तरेणअपश्चितं भुषणे ॥ ३६ ॥
त्तिज्ञाननिष्ठकारणतानिरूपितजन्यतावच्छेदकधर्मावच्छिन्नोपस्थिति. रित्यर्थः । उक्तस्थले हस्तिपकोपस्थितेवृत्तिज्ञानाजन्यत्वेऽपि न त. निष्ठा जन्यता हस्तिपकविषयत्वेनाऽवच्छिद्यते । नापि वृतिज्ञाननि. ष्ठजनकतायां हस्ती विषयत्वेनावच्छेदको, वृत्तिज्ञाने धर्मित्वेनाभावा. दिति नोक्तापक्तिरेवं च वृत्तिज्ञानापस्थितिशाब्दबोधानां समानविषयकत्वेन हेतुहतुमद्भावः फलतीति भावः। * असंभवदुक्तिकामति *॥ लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्व. स्याभावादितिभावः।
*एतेनेति ॥ द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन व. क्ष्यमाणदूषणेन वेत्यर्थः॥ *शक्तिप्रयोज्यति * ॥ लक्षणाज्ञानस्य शक्तिः शानाऽधीनत्वेन तज्जन्योपस्थितौशक्तिप्रयोज्यत्वसत्त्वान्न लक्षणावादि. मत हेत्वन्तरकल्पनेत्यर्थः ॥ *अनतिप्रसक्तस्यति* || जन्यजन्यत्वस्य लक्षणाशानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया तदशक्तिशानजन्यशक्यवानित्याकारकविशिष्टवैशिष्टयावगा. ह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्याऽपि शाब्दबाधापत्तिः । साक्षाजन्यत्वस्य तत्स्वरूपत्वे लक्षणाज्ञानजन्योपस्थित्यसं. ग्रहः । उभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् । स्वरूपसम्ब. न्धस्य तस्योभयसाधारण्यं तु सुतरामसम्भावितमिति भावः। अ. न्यथा सिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवर्तितावच्छेदकधमवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यन्ये । अधिकमने वक्ष्यते। __ अत्र वदन्ति । अर्थबोधजनकत्वस्य वस्तुतः पदनिष्ठस्य वाच्या वाचकव्यवहारनियामकशक्तित्वसम्भव एवोक्तकार्यकारणभावे.