________________
शक्तिनिर्णयः ।
३१७
त्योः कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात् । अन्यथा गङ्गातीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्ति जानतोऽपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिज्ञानस्य हेतोः सच्चात् ।
अपि च घटमानयेति वाक्यं, हस्तिनञ्च स्मरतो (१) घटपदादिभ्यो घटादेर्गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवती घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः । समूहालम्बरूपायां पदार्थोपस्थितौ पदजन्यत्व सच्चात् ।
तथाच विषयतया शब्दबोधं प्रति तदंशविषयकवृत्तिजन्योप
म्भवेत् तदा स्यादभ्युक्तप्रकारः । स एव न सम्भवतीत्याह-शक्तिज्ञानेति* ॥ *आवश्यकत्वादिति ॥ तदर्थविषयकोपस्थिति प्रति तदर्थनिरूपिततत्पदनिष्ठशक्तिज्ञानत्वेन हेतुताया अवश्यकल्प्य त्वादित्यर्थः । आवश्यकत्वमेवाह-*अन्यथेति ॥ शक्तिज्ञानपदार्थोंपस्थित्योः कार्य्यकारणभावे समानविषयत्वानिवेशे इत्यर्थः । सम्बन्वाग्रहवत इत्युक्त्या लक्षणाज्ञानासत्त्वं बोधितम् ॥ *गङ्गापदेति * ॥ प्रवाहरूपाऽर्थनिरूपितबोधकत्वशक्तिं गङ्गापदे जानत इत्यर्थः ॥ *तीरबोधप्रसङ्ग इति* ॥ तीरोपस्थितेस्तद्द्वारकशाब्दबोधस्य चापत्तिरित्यर्थः ।
ननुतापत्तिवारणाय वृत्तिज्ञानजन्य पस्थितिशाब्दबोधयोरेव काय्र्यकारणभावे समानविषयकत्वं निवेश्यतां, कृतं वृत्तिज्ञानपदार्थोंपस्थित्योः कार्यकारणभावेन तन्निवेशेनंत्यत आह-*अपि चेति ॥ हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये हस्तिनोऽपि वाक्यात् स्मृतिविषयता दर्शिता । समूहालम्बनत्यत्रालम्बनपदं विषयपरम् ॥ *वृत्तिजन्योपस्थितिरिति ॥ तद्विषयकत्वावच्छिन्नवृ
(१) स्मरत इति । एकस्मरणविषयत्वं स्वीकृत्येदमुदाहरणम् । वस्तुतस्तु स्मरणस्यैकत्वमित्यत्र न निर्भरः । क्षणिकस्मरणद्वयादपि वक्ष्यमाणसमूहालम्बनस्मरणनिर्वाहो भवतीति दिक् ।