________________
३१६ दर्पणसहिते वैयाकरणभूषणसारे पदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वाच्छक्तित्वमपेक्ष्य गुरुत्वात् । शाब्दबोधहेतुतावच्छेदकपदाऽर्थोप. स्थितिहेतुत्तेरज्ञाने तद्घटितकार्यकारणभावग्रहस्याप्यसंभवाव(१)।
अथ ममापि शक्तिज्ञानन्वेनैव हेतुता, शक्यसम्बन्धज्ञानरू. पलक्षणायां शक्तरपि प्रवेशादितिचेन्न । शक्तिज्ञानपदार्थोपस्थि.
लेत्यादि* ॥ शाब्दबोधजनिका या पदार्थोपस्थितिः पदवृत्तिज्ञानजन्योपस्थितिस्तदनुकूलत्यर्थः । कारणताऽवच्छेदकत्वे उभयसाधा. णं दूवणमाह-*गुरुत्वादिति*॥अस्मदभिमतशक्तित्वमपेक्ष्य निरुक्ता. न्यतरत्वादेगुरूत्वादित्यर्थः । द्वितीये दुषणान्तरमाह-*शाब्दबाध. हेविति* ॥ शाब्दबोधानुकूलत्वस्य तजनकत्वस्य कारणताऽव. च्छेदकोपस्थित्यधीनत्वेन तस्य च पदवृत्तिज्ञानजन्योपस्थितित्वात्म. कतया तज्ज्ञानस्य स्वघटकवृतित्वज्ञानं विना असम्भवेन कार्यकार• णभाव एव दुर्घट इत्यर्थः । तथा च वृत्तित्वग्रहे शाब्दबोधपदार्थोपस्थित्योः कर्यकारणभावग्रहस्तद्ग्रहे च निरुक्तपदपदार्थसम्बन्धः त्वरूपवृत्तित्वग्रह इत्यन्योन्याश्रयेणोक्तस्य वृत्तित्वासम्भव इति भावः।
वस्तुतस्तु विजातीयपदार्थोपस्थितिजनकपदपदार्थयोः सम्बन्धः शक्तिः । वैजात्यस्य निवेशाच्च नाकाशोपस्थितिजनकसमवा. यादावतिव्याप्तिः । तादृशवैजात्यपरिचायकञ्च शाद्वबोधानुकूलेति । न तु तेन रूपेणोपस्थितर्निवेश इत्यान्तमलक्षणस्यादुष्टत्वमिति ॥ *ममापीति* ॥ लक्षणाऽङ्गीकर्तुरपीत्यर्थः ॥ *प्रवेशादिति * ॥ त. थाच लक्षणाज्ञानस्याऽपि शक्तिज्ञानत्वेन हेतुत्वेन लक्षणाज्ञानजन्यलक्ष्यार्थापथित्यादौ शक्तिज्ञानस्य हतुतायां व्यभिचार इत्यर्थः । विषयमनिवेश्यैव यदि शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावः स.
(१) असम्भवादिति । शादबोधानुकूलत्वं-शाद्वबोधकारणत्वं, तस्य च कारणतावच्छेदकरूपापरिचये दुर्ग्रहत्येन, उक्तहेतुतावच्छे. दकस्य दुर्जेयत्वेन च कार्यकारणभावग्रहस्यासंभवादित्यर्थः।