SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः ॥ नचेदं पदमेतदर्थबोधकमिति शक्तिज्ञानेन कार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवं तवापि समानम् । परस्परव्यभिचारवारणायाव्यवहितोत्तरत्व(१) घटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्यकारणभावानन्यस्य तवापि साम्यात् । लक्षणा कार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता, वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया वाच्यमिति चेन्न । शक्तिलक्षणान्यतरत्वस्य शाब्दबोध हेतुपदार्थोपस्थयनुकूल पदप ३१५ स्थितेस्तयोरुपस्थितिहेतुतायां परस्परं व्यभिचारः । अव्यवहितोत्तरत्वसम्बन्धेन तत्कारणवैशिष्ट्यस्य कार्य्यताऽवच्छेदककोटौ निवेशे च गौरवम् तद्वदेवेत्यर्थः । ननु बोधकत्वशक्तिवादिनाऽपि गङ्गापदं प्रवाहबोधकमिति श क्तिमहालक्ष्यार्थोपस्थितिशाब्दबोधयोरापत्तिवारणाय च्छेदककुक्षौ तत्तदर्थनिवेश आवश्यकस्तथाच लक्षणावादिमते क गौरवमित्याशङ्क्य निराचष्टे *नचेति ॥ *परस्परेति ॥ गङ्गापदनिष्ठतीरबोधकत्वग्रहं विनाऽपि तीरादिपद निष्ठतादृशशक्तिग्रहेण तीरबोधात्तयोः परस्परजन्यबोधे व्यभिचारप्रतिरोधायेत्यर्थ ॥ *श क्तिभ्रमानुरोधेनेति ॥ गङ्गापदस्य तीरे शक्तिभ्रमदशायां तीरोपस्थित्यादेः सर्वमतसिद्धतया तवाऽपि तत्तत्कारणतावच्छेदक कोटी तत्तत्पदतत्तदर्थनिवेशस्यावश्यकत्वादित्यर्थः ॥ *तवेति* ॥ लक्षणास्वीकर्तुरित्यर्थः ॥ शक्तिज्ञानकारणतायां शक्तेश्शक्तित्वेन निवेशे स्यादेवोकदोषः । किन्तु वृत्तित्वेनेति न तत्सम्भाव नेत्याशङ्कते -*अथेति ॥ * वाच्यमिति ॥ शक्तिजन्योपस्थिताविव लक्षणाजन्योपस्थितावपि शक्तिलक्षणासाधारणवृत्तिस्वावच्छिन्नजन्यत्वसत्त्वादिति भावः ॥ *शक्तिलक्षणेति ॥ शक्ति• भिन्नत्वे सति लक्षणाभिन्नं यत्तद्भिन्नत्वस्येत्यर्थः ॥ *शाब्दबोधानुकू (१) कार्यतावच्छेदकत्वाव्यवहितोत्तरत्वघटितत्वे चेत्यर्थः । कारणताव
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy