________________
३१४
दर्पणसहिते वैयाकरणभूषणसारे
णत्वं वाच्यम् । तथाच कार्यकारणभावद्वयस्य कल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम् ।
अपच लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं . व्यभिचारः । शक्तिजन्योपस्थितिं विनापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । नचाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्य्यतावच्छेदकम् । तत्तदुपस्थितित्वञ्च कारणतावच्छेदकम् । अनन्तकार्य कारणभावप्रसङ्गात् ।
किञ्च, पदार्थोपस्थिति प्रत्यपि शक्तिज्ञानत्वेन च हेतुतेति व्यभिचारो गोरवञ्च प्राग्वदेव द्रष्टव्यम् ।
नुदयादन्वयव्यभिचारेण प्रत्यक्षाद्युपस्थितेः शाब्दबोधाजनकत्वादित्यर्थः ॥
नन्वनायया तादृशगौरवं सोढव्यमत आह अपिचेति ॥ व्यभिचारो व्यतिरेको बोध्यः । तमंत्रोपपादयति शक्तिजन्योपस्थितिमिति* | *अव्यवहितोत्तरत्वेति ॥ तच्च स्वध्वसाधिकरणक्षणानु त्पत्तिकत्वे सति स्वाधिकर णक्षणध्वंसाऽधिकरणक्षणोत्पत्तिकत्वम् | अत्र स्वपदं शक्तिज्ञानजन्योपस्थितिपरम् । लक्षणाज्ञानजन्यपदार्थोंपस्थितिप्राग्वर्त्तिशक्तिज्ञानजन्यपदार्थोपस्थतिजन्य शाब्दबोधे व्यभिचारवारणाय विशेष्यम् । शक्यशाद्वबोधानन्तरभाविलक्षणाज्ञानजन्योपस्थितिजन्य शाद्वबोधे व्यभिचारवारणाय सत्यन्तम् । प्र कृते लक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे उक्तसम्बन्धन शक्तिज्ञानजन्योपस्थितिवैशिष्ट्याऽभावेन तत्काय्यतावच्छेदकाक्रान्तत्वान्न व्यभिचार इति भावः ॥
*अनन्तेति* ॥ स्वत्वस्य तत्तदूव्यक्तिविश्रान्तत्वेनाननुगततया तदघटिताव्यवहितोत्तरत्वसम्बन्धेनोपस्थितिमत्त्वस्य कार्य्यतावच्छेदककाटौ निवेशे कार्य्यकारणभावानन्त्यमिति भावः । न्यायसाम्यादाह *किञ्चेति ॥ *प्राग्वदेवेति * ॥ शक्तिज्ञानं विनाऽपि लक्षणाज्ञानात् पदार्थोपस्थितेरेवं लक्षणाज्ञानं विनाऽपि शक्तिज्ञानात्पदार्थोप