________________
शक्तिनिर्णयः।
३१३ इदञ्चार्थधीजनकत्वं पित्रादिसङ्केतज्ञानादेव गृह्यते । अतस्त. ज्ज्ञानात् पूर्ण न बोधः । नाऽपि लाक्षणिकोच्छेदापत्तिरिष्टत्वात् । शक्तिग्राहकव्यवहारस्य मुख्य लक्ष्यसाधारण्यात् ।
किञ्च, प्रत्यक्षादिजन्योपस्थिते.. शाब्दबोधाऽनङ्गत्वाच्छा. ब्दबोधं प्रति(१)शक्तिजन्योपस्थितेर्लक्षणाजन्योपस्थितेश्च कार
अत्रेदश्चिन्त्यम् । यत्रेदं पदमेतदर्थ बोधयत्विति सङ्केतमात्राच्छाब्दबाधस्तत्र बोधकताशक्तिज्ञानस्य हेतुतावादिमते व्यभिचारो दुरुधर एव । नच तत्र सङ्केतशानमेव बोधकताज्ञानमित्युक्तमेवेति वाच्यम्। सविषयकज्ञानस्य तद्विषयविषयकत्वेऽपि तद्विशेष्यांऽशे तत्प्रकारो न तेन विषयीक्रियते । घटमहं जानामीत्यनुव्यवसायेन शानांऽशे घटत्वप्रकारकत्वघटविशेष्यकत्षयोरेव विषयीकरणात् । अन्यथा भ्रान्तस्य भ्रान्तत्वापत्तिरनिवार्यव-स्यात् ।।
अत एव शब्दचिन्तामणौ तात्पर्य्यविषयसंसर्गज्ञानपूर्वकत्वस्य पदपक्षकाऽनुमानेन सिद्धावपि नेतरपदार्थेऽभिमतापरपदार्थसंस. सिद्धस्तादृशसंसर्गज्ञानपूर्वकत्वानुमानन तत्पदार्थतात्पर्यविषयसंसर्गस्याविषयीकरणादित्यस्वरसात् पदार्थपक्षकानुमानमवतारितं पक्षधरमिधैरिति ॥
शक्तित्वग्रहमाह-*इदश्चेति ॥ शक्तित्वेनाऽभ्युपेतं बोधकत्वं चेत्यर्थः ॥ पित्रादीत्यादिनाप्तपरिग्रहः । पूर्वेक्तां लाक्षणिकोच्छदापत्तिमिष्टत्वेन परिहरति-*नाऽपीति ॥ *शक्तिग्राहकेति* ॥ शक्य इव शक्तिग्राहकव्यवहारादेर्लक्ष्येऽपि तुल्यत्वादित्यर्थः।
ननु शक्यलक्ष्यव्यवहारानुपपत्त्या लक्ष्यव्यावृत्तैव सा वाच्या । तथाच लक्ष्योपस्थितय लक्षणावृत्तेरावश्यकत्वेन कथमुक्तापत्तरिष्टत्वमत आह-*किश्चेति* ॥ *शाब्दबोधानङ्गत्वादिति ॥ घटादि. पदे गृहीतशक्तिकस्य प्रत्यक्षाशुपस्थितघटादिपदाच्छाब्दयोधा:
(१) शक्तिजन्येति । ज्ञायमानवृत्तरुपस्थितिहेतुत्वमिति मतन बोध्यम् । वृत्तिज्ञानस्य कारणत्वमितिमते तु शक्तिजन्य-शक्तिशानजन्य त्यों बोध्यः।
४०