SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१२ दर्पणसहिते वैयाकरणभूषणसारे : नेदं तद्धीजनकमितिग्रहवतो बाधेन पदे परग्रहं जानतोऽपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति(१)। .. . शानस्य विषयकत्वेऽपि न तेन पदांशेऽर्थबोधकत्वं विषयीक्रियते येन तस्य शक्तिमहत्वं स्यात् । किन्तु बोधांशे तत्पदजन्यत्वमर्थाशे तारशबोधविषयत्वमेव, तथा तेन तुल्यवित्तिवेद्यतया पदांशेऽर्थबोधकत्वमप्यवगाह्यत इति तु दुर्वचं तुल्यवित्तिवेद्यत्वे मानाभ वात्तत्प्रतिबन्धकस्य ग्राह्याभावावगाहिनो नेदं तद्धाजनकमिति ज्ञानस्य जागरूकत्वाञ्च। न च पदनिष्ठार्थपदजन्यबोधविषयत्वमपि शक्तिर्विनिगमनावि. रहादुभयविधज्ञानाच्छाब्दबोधस्य संघर्षानुभवसिद्धत्वन कार्यता. पच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच न परस्परजन्यशाब्दबोधो व्यभिचारः । एवञ्च द्वितीयशक्तिमहरूपात् तस्माच्छाब्दबोधापत्तिः सुकरेति वाच्यम् । तथा सति, नेदमर्थधीजनकमिति प्रामाभावानवगाहिनोऽप्रतिबन्धकग्रहस्योपन्यासवैयोत् । ग्राह्याभावानवगाहित्येप्युभयविधशक्ति प्रत्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वोपग. मेन तदुपन्यासस्य सार्थक्यसम्पादने तूतज्ञानस्याऽसम्भव एवे. त्याशयेन दूषयति-नेदं तद्धीजनकमिति* ॥ बाधेन-अप्रामाण्यज्ञा. नानास्कन्दितनिरुक्तनिर्णयात्मकप्रतिबन्धकसद्भावनत्यर्थः ॥ तदप्र. हासम्भवात्-अर्थविशेष्यकपदजन्यबोधविषयत्वग्रहासम्भवादित्य. र्थः ॥ * अन्यथेति ॥ बाधग्रहेऽपि जायमानस्य, रजतं बुद्धमनेनेति ग्रहस्य, इद विशेष्यकरजतप्रकारकग्रहत्वे ॥ भ्रान्तिक्षस्येत्यनेन दो. पाऽभाववत्वमपि सूच्यते ॥ *भ्रान्तत्वापत्तरिति । तदभाववति तदवगाहिशानवत एव तत्वादिति भावः । ..(२) भ्रान्तत्वापत्तेरिति । अयं भावः । भ्रान्तिक्षस्य अनेन पुरुषेण शुक्तिकादि रजतत्वादिरूपण गृहीतमिति ज्ञानावश्यकत्वेन रजत. स्वाभाववच्छुक्तिविशेष्यकरजतत्वप्रकारकशानसंभवात्तस्यापि रजत. त्वभ्रमाश्रयत्वं स्यादिति। .....
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy