________________
३१० दर्पणसहिते वैयाकरणभूषणसारे क्तिकादर्यबोधप्रसङ्गात् । नाऽपि सामान्यतो ज्ञातः । प्रमेयत्वादिपदेवपीश्वरादेः सतत्वेन तज्ज्ञानशून्यानां लौकिकमीमा. सकादीनां (१)तत्तदर्थबोधजनकत्वग्रहवतामेव बोधोदयेन व्य. भिचारात् ।
नचाऽर्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं तथा । ततोऽपि लाघवेनार्थंधीजनकतावेनैव हेतुतायामस्मत्पक्षसिद्धः। न चा. धुनिकदेवदत्तादौ सङ्केनज्ञानादेव बोधेनास्य व्यभिचारः। तत्रापि
स्पत्त्या स्वाऽसाधारणधर्मेणोक्तसङ्केतत्वेनेत्यर्थः । दण्डत्वेन घटे द ण्ड इव शानाऽविषय एव सङ्केतत्वेन तुरिति यावत् ॥ * अगृहीत. शक्तिकादिति* ॥ अज्ञातसङ्कतादित्यर्थः॥ . अर्थबोधप्रसङ्गादिति ॥ सङ्केतस्य तत्र विद्यमानत्वादिति मा. वः॥ *सामान्यत इति* ।। जनकाजनकसाधारणरूपेणेत्यर्थः ।। *स. नत्वेनेति ॥ ईश्वरीयसङ्केतत्वादिना विशेषधर्मेणेत्यर्थः। *तज्ज्ञानशून्यानामिति* ॥ सङ्केत ईश्वरीयत्वमाविदुषामित्यर्थः ॥ *लौकि. कमीमांसकानामिति* ॥ वैदिकानां तेषां कथञ्चिदीश्वरबोधसम्भवादुक्तं *लौकिकेति । अथवा लौकिकानां व्यावहारिकपदार्थमा. प्रविषयकशानवतां पामराणामिति यावत् । मीमांसकानां चेत्यर्थः। *बोधोदयेनेति ॥ सङ्केतत्वेन तज्ज्ञानमात्राद् गवाद्यर्थबोधोद. येनेत्यर्थः॥
यद्यपि सङ्केतत्वेन सङ्केतक्षानकारणतावादिमते नेश्वरीयत्वादेनि: वेशस्तस्थापि गवादावीश्वरस्येति तद्वन्यालोचनयेश्वरीयत्वादेनिवे. शस्तदभिमत इत्यभिप्रेत्य दूषितमिति ध्येयम्॥ तत्तदर्थधीजनकग्रह. पतामेवेत्येवकारेण निरुक्तसङ्कतज्ञानवत्स्यव्यवच्छेदः । स च तमा. नशन्यानामित्यस्यैवानुवादः । एवशुन्यपाठस्तु सुगमः । इदश्च श. क्तिग्रहरूपकारणप्रदर्शकम् । तज्ज्ज्ञानं सङ्केतज्ञानम् ॥ तथा हेतुः॥ ___ *ततोऽपीति*॥अर्थधीजनकतानिरूपितविषयतासम्बन्धावच्छि.
(१) अत्रादिपवम्-चार्वाक बौद्धादिसंग्राहकम् । ..
.
.
.
.
"