________________
शक्तिनिर्णयः।
३०९
ननु न बोधकारणत्वमनादिभूतं शक्तिः। आधुनिकदेवदसादिपदे तदभावात् । अन्यथा पित्रादीनां सङ्केताज्ञानेऽप्यन्व. यबोधप्रसङ्गो, लाक्षणिकातिव्याश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यम् । तथाचावश्यकत्वात् स एव शक्तिरस्तु । स चाधुनिके पित्रादेर्गवादी चेश्वरस्य चेति चेत् ।
___ अत्रोच्यते । सङ्केतो न स्वरूपेण हेतुः । (१)अगृहीतशन्द्रियजन्यपूर्वपूर्वबोधध्वंसकालिकत्वं,न त्वजन्यत्वमव्यावर्तकत्वात् । शब्दनिष्ठरोधकारणतायां तु स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वं. सवत्वम् । तद्बोधकारणता-अर्थबोधकत्वम्।
शायमानं पदं करणमभिप्रेत्येदम् । अन्यथा विषयतायां तादृश. हेतुताऽवच्छेदकतेत्यर्थो बोध्यः । सङ्केतहानं विनोक्तशक्तिग्रहाऽसम्भवेनावश्यापेक्षणीयतया तस्यैव शक्तित्वमस्तु, "तद्धेतोरेव"इति न्या. यात् इत्याशङ्कते-*नन्विति* ॥ तस्याऽशक्तित्वे हेतुराधुनिकेत्या. दि॥ आधुनिकेएतत्कालिकसङ्केतावशिष्टे । तदभावात मिरु. क्तानादित्वविशेषणविशिष्टबोधकारणस्वाभावादित्यर्थः ॥ विशेष्य. सत्वेऽपि प्रकृते विशेषणाऽभावप्रयुक्तविशिष्टाभावसत्वेन तदप्र. तियोगित्वरूप।२)कारणत्वं न सम्भवतीत्यर्थः। ___ नम्वनाविभूतेतिप्रसिद्धिप्रदर्शनमात्रार्थकं नतु तच्छक्तिशरीरे प्र. विष्टं येन तद्रूपेण तस्य हेतुता सम्भाव्यता किन्तु बोधकारणत्वत्वेन. व । प्रकृते तेन रूपेण तमामे बाघकाभाव इति चेत्स्यादेवं यदि सङ्केतग्रहमन्तरेणैव तद्भहो भवेन तु तत सम्भवतीत्याह-*अन्यथेति। सङ्केतनिरपेक्षस्यैव तस्य शाब्दबोधहेतुत्वे इत्यर्थः ॥ *लाक्षणिके. ति* ॥ तत्राऽप्यनादिभूतबाधजनकत्वव्यवहारादिति भावः ॥ *आ. वश्यकत्वादिति* ॥ अवश्याऽपेक्षणायज्ञानविषयत्वादित्यर्थः ॥ स एव-सङ्केत एवं ॥ एवकारण बोधकत्वव्यवच्छेदः, ॥ सङ्केतस्य स्व. रूपतः सामान्यतो विशेषरूपेण वा हेतुत्वमाभिमतामिति विकल्पं दूषयति-*उच्यत इति ॥ *स्वरूपेणेति ॥ स्वस्य यदूपमिति व्यु.
(१) अगृहीत शक्तिकात इत्यत्र पदादितिशेषो बाध्यः . (२) कायाधिकरणवृत्त्यभावप्रतियोगित्वेत्यर्थः।