SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ... शक्तिनिर्णयः। ३०७ कारादिसङ्केतः परिभाषा । तया चार्थबोधकं पारिभाषिकमिति व्य. वहियते नदीवृयादिपदम । लक्षणा तु शक्यसम्बन्धः। तत्कल्पि. का तु मुख्यार्थबाधोत्रीततात्पानुपपत्तिः। तथा हि । गङ्गायां घोष इत्यत्र गङ्गापदस्य घोषाऽभावात् प्रवाहाऽर्थकत्वेन तीरतात्पर्य्यकत्वे उन्नीते तात्पर्यविषयतीरस्मृति विना. नुपपद्यमानेन तीरशाब्दबोधेन तस्मृतिराक्षिप्यते । सा च गङ्गापद. वृत्तिं विनानुपपद्यमाना तज्ज्ञानमाक्षिपति । तेद्विषया ग्रहापदनिरूपि. ता वृत्तिन शक्तिस्तस्यात्राभावादतस्तीरस्मारिका काचिदन्यैव वृत्तिः कल्प्यते । सा च गङ्गापदशक्यसामीप्यरूपैव तेन रूपेण गृह्यमाणा तीरं स्मारयत्यनुभावयति च। शक्याशक्योपस्थितिस्तु न लक्षणा। उपस्थिति हेतोस्तत्वासम्भवात् । नापि स्वयोध्यसम्बन्धः । समासशक्तिनिरूपणोक्तयुक्तः । - नन्वीश्वरेच्छाया शक्तित्वासम्भवः, घटपदस्थापि पटे शक्तत्व. प्रसङ्गादू, घटपदात पटो बोदव्य इतीच्छाया विषयतया पटेऽपि सत्वात । यदि चेश्वरेच्छीयघटपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं शक्तिरिति न पटपर्देऽतिप्रेसङ्गः । तद्विषयत्वेऽपि ता. दृशविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वस्य तत्रानभ्युपगमादि. त्युच्यते, तदापि गङ्गापदात् तीरबोधस्यापि जायमानत्वेन सन्मात्रविषयकेश्वरेच्छीयगङ्गापदजन्यबोधविषयत्वप्रकारतानिरूपितविशे.. प्यत्वस्य तीरे सत्वाच्छक्त्यैव निर्वाहे कृतं लक्षणयति चेन्न । गङ्गापदवाच्यत्वव्यवहारस्य तीरादावसत्वेन गङ्गापदजन्यबोधः विषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वसम्बन्धन ईश्वरेच्छीयगङ्गादिपदानां प्रवाहादीशक्तिस्तीरनिष्ठविशेष्यतायाश्च गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूप्यत्वेऽपि न तस्य तारशविषय तात्वेन तादृशप्रकारतानिरूपितत्वमपि तु शुद्धविषयतात्वेनैवेत्यभ्यु. पगमान्न तया लक्षणान्यथासिद्धिर्नाऽपि विषयत्वलक्षणसम्बन्धस्य पदे जन्यजनकभावे च सत्त्वेऽपि तत्रातिप्रसङ्गः। ___ तत्र लक्ष्योपस्थितिनियामकः सादृश्यात्मकः सम्बन्धो गौणी, तदतिरिक्तस्तु शुद्धलक्षणेति व्यवहियते । शुद्धाऽप्युपादानलक्षणभेदेन द्विविधा । तत्र मुख्यसंसृष्टान्यार्थोपस्थापकत्वमुपादानत्वम् । शक्याऽविषयकलक्ष्यार्थीपस्थितिजनकत्वं लक्षणात्वम् । 'यष्टीः प्रवे.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy