SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०१ दर्पणसहिते वैयाकरणभूषणसारे लप्पकोटौ अवशिष्यत इति दिक् ॥ ३५ ॥ ... इति वैयाकरणभूषणसारे समासशक्तिनिरूपणम् ॥५॥ ॥ अथ शक्तिनिणयः ॥ ... शक्तिप्रसङ्गात् तस्याः स्वरूपमाह--- इन्द्रियाणां स्वविषयेष्वनादियोग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥३६॥ क्षत्वेन षष्ठीसमास एव न्याय्यो, न तु कर्मधारय इति कथमुक्तसि. द्धान्तसङ्गतिः प्रकृतेऽपीत्यत आह-*दिगिति* ॥ तदर्थस्त्वत एवा. स्वरसात् “लिङ्गदर्शनाच"इति सूत्रं हेत्वन्तरोपसङ्ग्राहकं प्रणीतं महः र्षिणा । तच्च शबरस्वामिना, "कूटं हि निषादानामेवोपकारक, नाs. योणामेवश्च तनिषादानामेव स्वम्" इति भाष्ये व्याख्यातम् । तथा. च कूटदक्षिणालिङ्गात् कर्मधारयत्वे निर्णीते स्थपतिशब्दस्य राजदन्तादित्वात् परनिपातो बोध्यः सम्बन्धाकालानिवृत्तिरप्यर्थतो नि. षादानां स्वत्वलाभादुपपद्यते । एवं लाघवादिविचारस्तु कश्चित् सम्भवमात्रेणेति सर्वमनवद्यम् ॥ ३५॥ इति भूषणसारदर्पणे समासशक्तिनिरूपणम् ॥ ५॥ *प्रसङ्गादिति ॥ "समासे खल मित्रव शक्ति" इति ग्रन्थेन स्मृतायाः शक्तेरनुपेक्षणीयत्वादिति भावः । अगृहीतवृत्तिकात पदात् पदार्थोपस्थितेः शाब्दबोधस्य चादर्शनात्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धिं प्रति तधर्मावच्छिन्नार्थनिरूपितवृत्तिविषयकपदज्ञानं करणं, वृत्त्या पदजन्यपदार्थोपस्थितिव्यापारः । तां विना तदनुत्पत्तेः, न तु वृत्तिमत्त्वेन ज्ञातं पदम् । अतीतानागतशब्दानुसन्धानाच्छाब्दबोधा. ऽनुदयप्रसङ्गात्। .. वृत्तिश्च शक्तिलक्षणाभेदाद द्विविधा । तत्रार्थे पदसङ्केतः शक्तिः । स चेदं पदमिममर्थ बोधयतु इति पदविशेष्यकेच्छात्मकः । अस्मात् पदादयमों बोध्य इत्याकारपदार्थविशेष्यकेच्छारूपो वा. विनिगमः काभावात् । तया चार्थबोधकं पदं वाचकमिति व्यवतियते । शास्त्र
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy