SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ .. .... दर्पणसहिते वैयाकरणभूषणसारे पर्यवस्यच्छाब्दबोधाऽविदूरप्राकक्षणस्थितः ॥ शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तम् ॥ ३५ ॥ पर्यनस्यश्चासौ शब्दबोधश्च तस्मादविदरशासौ प्राक्क्षणश्च, तदानीन्तनलाघवमादायाऽधिकरणाऽविरोध इत्यर्थः । अयं भा. वः। निषादस्थपतिपदस्य समासशक्तिपक्षे, निषादरूपे निषादानाच स्थपती, निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्ना. नार्थत्वम् । तथाच, "नानार्थे तात्पर्य्यात् विशेषावगतिः" इति न्यायेन तत्कल्पनायां(१) पदद्वयेन पूर्वोपस्थितार्थे(२) एवोप पक्षे, तत्पुरुषस्यापि पूर्वपदलाक्षणिकतया कर्मधारयापेक्षया गौरवालाघवात् कर्मधारय एव । अपूर्वविद्याध्ययनस्योत्तरकल्प्यत्वेन तादृशगौरवस्य फलमुखतया अदोषत्वादिति सिद्धान्तितम् । तद् वि. रुद्ध्येत । भवन्मते तत्पुरुषस्वीकारेऽपि गौरवाऽनकाशादिति भावः ॥ _. *तदानीन्तनति * ॥ तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक क्षणावृत्तिशक्तिग्रहनिष्ठान्तरङ्गबहिरङ्गभावचिन्तनप्रयुक्तलाघवमादा. येत्यर्थः । तदेव विशदयति-*अयम्भाव इति* ॥ निषादरूप इति* ॥ स्थपतावित्यनेनान्वितम् ॥ *निषादानामिति ॥ निषादसम्बन्धिस्थपतावित्यर्थः । तत्र षष्ठयर्थसम्बन्धान्तर्भावणैकार्थीभावाऽभ्युपगमात् ॥ *निषादस्वामिक इति* ॥ स्थपतिशद्वस्य स्वाम्यर्थकतया निषादाभिन्नस्वामिके पुंसीत्यर्थः । तत्रान्यपदार्थान्तर्भावेण समुदायशक्तिस्वीकारात(३) । नानाऽर्थ इत्यस्य वृत्त्यानेकार्थोपस्थितौ जाता. यामिति शेषः ॥ न्यायेनेत्यस्य व तात्पर्य्यमिति सन्देहे सति ॥ त. कल्पनायाम् तात्पर्य्यकल्पनायाम् ॥ . *पूर्वोपस्थितार्थ एवेति* ॥ समासघटकप्रत्येकपदशक्त्युपस्था. (१) तत्कल्पनायामिति । तात्पर्यकल्पनायामित्यर्थः । (२) पूर्वोपस्थितार्थ एवेति । निषादरूपस्थपतावेव निषादसम्ब. ध्यपक्षया तदुपस्थितः प्रथमत एवोत्पत्तेः । (३) बहुव्रीहि समासपक्षे इति शेषः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy