________________
समासशकिनिर्णयः ।
यो दृष्टः । तथाहि । 'आक्षिकः' 'कुम्भकारः' इत्यन्त्राक्षकरणकव्यापाराश्रयः, कुम्भोत्पत्यनुकूलव्यापाराश्रम इति बोधः । 'अक्षैदिव्यति' 'कुम्भं करोति' इत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भपश्यनुकूला भावनेति बोधः । कृत्प्रत्यये कारकाणामाख्याते च भावनायाः प्राधान्यं वदतो मीमांसकस्यापि गुणप्रधानभावांशव्यत्यासो न · विवरणत्वबाधक (१) इति नात्र पाक्षिकस्य, 'चित्रा गावो यस्य' इत्यादेर्विग्रहत्वे बाधकमस्तीति भावः || ३४ ॥
नन्त्रस्तूकरीत्या सर्वत्र समासे शक्तिरस्तु च तथा विग्रहस्तथापि षष्ठीतत्पुरुषकर्मधारययोः शक्तिमत्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्त सिद्धिर्न स्यादित्यत आह
३०३
टित विवरणे इत्यर्थः । व्यत्यासमेवाह - * तथाहीत्यादि ।
तनु तत्रापि, यः कर्त्तृलक्षकतयाऽक्षकरणव्यापाराश्रय इति बोधान्न समानार्थकत्वभङ्गोऽत आह-* कृत्प्रत्यये इति* ॥ कारकाणाम् क त्रादीनाम् ॥ प्राधान्यम् मुख्यविशेष्यत्वम् । कारकाणां प्राधान्यं, "प्र. कृतिप्रत्ययार्थयोः” इति न्यायेन, भावनायास्तु "भावप्रधानमाख्यातम्" इति निरुक्तादिति भावः ॥ ३४ ॥
*शक्तिमत्त्राविशेषादिति ॥ शक्तिमत्वमेकार्थीभावः ॥ *सि· द्धान्तसिद्धिरितिं* ॥ सिद्धान्तस्य मीमांसितार्थस्य सिद्धिरनुष्ठानोपयोगाईत्वमित्यर्थः । तथाहि "निषादस्थपतिं याजयेत्” इति श्रूय. ते । तत्र निषादस्थपतिशब्दः किं षष्ठीतत्पुरुषो बहुव्रीहिर्वोत कर्मधारय इति संशये, कर्मधारयेऽपूर्वविद्याध्ययन कल्पनागौरवाद बहुव्रीहौ वाक्यलक्षणायां गौरवाल्लाघवाऽभावात् षष्ठीतत्पुरुष एवेति पू
(१) विवरणत्वबाधक इति । तद्धितकृतोरर्थप्रदर्शक वाक्ये गुणप्राधान्यवैपरीत्येऽपि यथा विवरणत्वमङीक्रियते तथा चित्रा गावो यस्य इति वाक्येऽपि विवरणत्वं संभवेदितिभावः ।