________________
३०२ दर्पणसहिते वैयाकरणभूषणसारे यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति "शेषो बहुव्रीहि" (पा. स०.२।२।२३) इति सूत्राल्लभ्यने इति प्रथमान्तपक्षे(१) वा. क्यं, चित्रा गायो यस्येत्येवं सम्भवत्येव । “षष्ठी"(पा० मू० २। २।९) इति समासविधानाद् राज्ञः पुरुष इति च पक्ष वाक्य. म् । तथापि तस्य न विग्रहत्वं भिन्नार्थत्वात् , किन्तूक्तस्यैवेति मीमासकास्तान् प्रसङ्गानिरस्यति--
आख्यातं तद्वितकृतोर्यत्किञ्चिदुपदर्शकम् ॥ गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ ३५ ॥ तद्धितकृतोर्यत्किश्चिदर्थबोधकं विवरणमाख्यातं, तत्र विप
सयोः समानविशेष्यप्रकारकबोधजनकत्वं तदनुरोधादित्यर्थः । उक्त विग्रहवाक्याऽन्तर्गतराजशब्दस्य सम्बन्धिनि लाक्षणिकत्वान्न विग्र. स्वक्षतिः। सम्बन्धार्थकशष्टयन्तस्य तु सम्बन्धप्रकारकबोधजनकत्वान्न विग्रहत्यमेवं चित्रा गावो यस्येत्यादेरपीत्याशयं प्रकाशयति-यद्य. पीत्यादि, मीमांसका इत्यम्तेन । *सूचालभ्यते इति* । तेन हि,"शेषो बहुव्रीहिः" ( पा० सू० २१२।२३) इत्याधिकारात प्रथमात्रिकस्य द्वितीयाश्रितेत्यादिनाऽयुक्तस्य समासो विधीयते । यद्यपि, “विशेषणं विशेष्येण" (पा० सु० २।१५७) इत्यादिना तस्याऽपि समास उक्त एव तथापि नाऽसौ प्रथमाशब्देनोल्लिखित इति तत्त्रिकस्य शेषत्वमवि. कलमिति भावः। ___उक्तस्यैवेति । चित्राणां गवामयमित्यादेरेवेत्यर्थः । एक्कारेण प्रथमाऽन्तचित्रादिपदघटितस्थ व्यवच्छेदः । उपदर्शकपदस्य विवरणम्-अर्थबोधकमिति । आख्यातम्-तिङन्तम् । तत्र तिङन्तघ.
(१) प्रथमान्तपक्ष इति । प्रथमान्तानां समास इति पक्षः, प्रथ. मान्तपक्षः, इति मध्यमपदलोपी समासो बोध्यः । कचित् 'प्रथमा. न्तम्' इति पाठः, सदा तत् वाक्यविशेषणम् । वाक्ये प्रथमान्तत्वश प्रथमान्तपदघटितत्वेन बोध्यम् ।