SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ • समासशक्किनिर्णयां : सङ्गच्छते । सङ्गच्छते चाऽरुणाधिकरणारम्भः ।।. ५. अन्यथा, “अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणा ति" इत्यत्रारुणपदवदितस्योरपि एकाग्दत्वादिगुणमात्रवाचकतया अमूर्तत्वात् , क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्य. स्यैव वाक्या दशङ्काया असम्भवादिति प्रपाश्चितं भूषणे । तस्मात् समासशक्तिपक्षो(१) जैमिनीयैरवश्याभ्युपेय इस्पास्ता वि. स्तरः ॥ ३४॥ · ..... राजपुरुष इत्यादौ राजा चाऽसौ पुरुषश्चेत्येव विग्रहः । चित्र. गुरित्यादौ च चित्राणां गमामयमित्येव समानार्थत्वानुरोधात् । नच तादृशप्रतिवध्यप्रतिबन्धकभावकल्पने गौरवमिति वाच्यम् । सर्वत्र विशिष्टशक्तिकल्पनापेक्षया कचित् प्रतिबध्यप्रतिबन्धकमाव: कल्पने एव लाघवात् । __ वस्तुतस्तु यत्रोद्देश्यविधेयभावेनान्वयबोधस्तत्पदार्थोपस्थितिस: मवहिततदानुपूर्वीविरहादेव तथान्वयासम्भवानोक्तप्रतिबध्यप्रतियः न्धककल्पनाऽपि । एकप्रसरता तु प्रथमपदार्थाऽन्वितभक्षविशेष्यकबोधोऽनुभव एवेति नोक्तयुक्त्या मीमांसकैर्विशिष्टशक्तिरभ्युपेयेत्यत आह-*सङ्गच्छते चेति* / *वाक्याद् भेदेति*। नच तस्य वाक्यभेदेन प्रकरणे निवेशोऽपि सम्भवति । अमूर्तत्वेन क्रियाभिः कारकत्वेन द्रव्यः सममपि सम्बन्धासम्भवात् । नच तृतीयया ज्योतिष्टोमकरणीभूतप्राकराणिकद्रव्याण्यनुद्य यत् कर्तव्य तदारुण्यगुणकेनेति परिच्छेदकत्वेन तदन्वयो नासम्भवित इति वाच्यम् । तथा सति शक्तिः कारकमिति सिद्धान्तभङ्गायत्तेरित्यपि बोध्यम् । उपसंहरति-*तस्मादिति । जैमिनीयैरिति वदता नैया. यिकमतस्य सयुक्तिकत्वं ध्वन्यते ॥ ३३॥ *समानार्थत्वाऽनुरोधादिति । समानार्थत्वं च व्याससमा. .. (१) जैमिनीयैरिति । अर्थान्महर्षिप्रणीतसूत्रविरोधावं जमिनी. यानां युक्तमिति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy