________________
३०० दर्पणसहित वैयाकरणभूषणसारे ये। "व्यङ्गः स्विष्टकृतं यजति" इत्यत्राङ्गानुवादेन वित्वविधानं न युक्तम् । एकपसरताभङ्गापोरिति दशमे च निरूपितं
पस्थितिजनकत्वरूपैकप्रसरताभङ्गापत्तेरित्यर्थः । तैर्विशिष्टशक्त्यः नभ्युपगमेऽपि विशिष्टलक्षणाया अभ्युपगमेनकप्रसरतायास्तन्मत. सिद्धत्वात् । न चोदश्यतयाऽन्वये यच्छब्दयोगप्राथम्यादीनां विधयतयान्वये च तच्छब्दयोगादीनां तन्त्रतया तत्र तदभावात् कथं तदापादानमिति वाच्यम् । सति तात्पर्ये, प्रथमो भक्षः, पण्डितों ब्राह्मण इत्यादावुद्देश्यविधेयभावेन बुद्धरानुभविकत. या यच्छब्दयोगादीनां प्रायिकत्वात् । तादृशशाब्दबोधे अ. समस्तपदजन्योपस्थितेर्हेतुता तु न । दामोदरः पूज्यो, राजपुरुषः सुन्दर इत्यादितस्तथा बोधानुपपत्तेस्तत्र च प्राथम्यविशिष्टं भक्षणान्तरमेव विधीयते शब्दवृत्त्या। ततश्च प्राप्ताप्राप्तविवेकन प्राथ. म्यविधिः पर्यवस्यतीति सिद्धान्तादिति भावः । ... *जयङ्गैरिति । तत्र होज्याशेषभूतत्रित्वविशिष्टयत्किञ्चिदङ्गः विधानं, किं वा त्रित्वविशिष्टाऽङ्गविधानमिति संशये प्रकता. विज्याशेषेण पुरोडाशेन स्विष्टकृते हुतत्वादत्राऽपि शेषभूतत्रित्व. विशिष्टाऽङ्गैरेव स्विष्टकद्वचनं युक्तमिति पूर्वपक्षे, शेषभूतानि का. निचिदङ्गान्यनृद्य वित्वविधाने एकप्रसरताभङ्गापत्तिस्तस्मात् कल्प. सूत्रोक्तत्रित्वविशिष्टाङ्गान्तरविधानमिति निर्णीतं दशमाध्यायस्य तृ. तीये पादेः इत्यर्थः। कल्पसूत्रोक्तानि हृदयाघेकादशाङ्गानि तुहृदयं १, जिह्वा २, वक्षा ३, यकृत् ४, वृषणौ ५। ६, सव्यं दोः ७, उभे पावें ८९, दक्षिणा श्रोणी १०,गुदम् ११, इति । तत्र त्रीणिदक्षिणोऽस, सव्या श्रोणी, गुदं तृतीयमिति । .... नन्वेकप्रसरत्वं न विशिष्टाऽर्थोपस्थितिजनकत्वं, किन्तु समासः . घटकपर्दयोरुद्देश्यावधेयभावेनाऽन्वयाऽबोधकत्वमिति व्युत्पत्तिस्त. द्भङ्गापत्तरिति तदर्थो, न तु विशिष्टार्थोपस्थितिजनकत्वभङ्गापत्तिरि.' ति। तांशव्युत्पत्तिशरीरंतु समासघटकपदाऽर्थनिष्ठविधेयतानि. सपितोइश्यतासम्बन्धेनं शाब्दबुद्धि प्रति समासघटकपदजन्योप. स्थितिः प्रतिबन्धिकेति।