SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९६ दर्पणसहिते वैयाकरणभूषणसारे तिप्रसङ्गः । तथाच समासे परस्परमन्वयासम्भवादावश्यकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः । वैव्यक्तिनिष्ठत व्यक्तित्वस्य भानाऽलम्भयेन तदवच्छिन्नप्रतियोगि ताकाऽभावे शक्तिग्रहाऽसम्भवनाऽपूर्वव्यक्त्य भेदाऽन्वयाऽनुपपत्तेः । अभावबुद्धेर्विशिष्टवैशिष्ट्याऽवगाहित्वाऽनुपपत्या एकधर्माऽवच्छि नप्रतियोगिताकाऽभावेऽपरधर्मावच्छिन्नप्रतियोगितायाः सम्बन्धतया भानाऽसम्भवाञ्श्चेति चेन्न । अभेदस्तादात्म्यं तच्च स्ववृत्यसाधारणो धर्मः । असाधारण्यं च स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव प्रवृत्तेः सः । तस्मिन्नाधेयतया प्रकृत्यर्थाऽन्वयः । अपूर्वव्यक्तिनिष्ठ तद्व्यक्तित्वस्य विशिष्य ज्ञातुमशक्यत्वेऽप्येकमात्रधर्मत्वेन सामान्य प्रत्यासत्या सुग्रहात् सर्वं सुस्थमिति । * पार्ष्टिक इ ति* ॥ शाद्वबोधोत्तरकालिक इत्यर्थः ॥ *अन्वय इति* ॥ तदूबो ध इत्यर्थः । अरुणाऽधिकरणरीत्या सर्वेषां विभक्त्यर्थानां प्रथमं क्रि. यायामेवाऽन्वयेन तत्र शुभ्रादिपदार्थान्वये विभक्तिजन्योपस्थितिसत्वात्तत्पक्षेऽपि नोक्तव्युत्पत्तेर्व्यभिचार इति भावः ॥ ननु नामाऽर्थयोरिति व्युत्पत्ते राजा पुरुषस्तण्डुलः पचतीत्यादौ राज्ञः स्वस्वामिभावसम्बन्धेन पुरुषे, तण्डुलस्य कर्मतासम्बन्धेन धात्वर्थपाकेऽन्वयवारणायाऽऽवश्यकत्वेऽपि तत्र राजा पुरुषस्तोकं पचतीत्यत्राऽभेदसम्बन्धेनाऽन्वयाद् व्यभिचारवारणायाऽभेदाति• रिक्तसम्बन्धाऽवच्छिन्नत्वं नामाऽर्थनिष्ठप्रकारतायां निवेशनीयम् । नच विशेषण विभक्तंरभेदाऽर्थकतया निर्वाहः । कट एव कर्मेति भाग्यव्याख्याऽवसरे भीष्मादीनां स्वयमकर्मकत्वेऽपि विशेष्य सम्ब न्धिविभक्त्यैव भीष्मादिपदोत्तरं भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां "प्रत्ययः" "परश्च" इति नियमेन प्रयोगाऽनर्हत्वात् । यथेश्वरसुहृदः स्वयं निर्धना अपि तदीयधनेनैव तं - त्फलभाज एवं गुणा अपीति "अनभिहित" सूत्रे वदता कैयटेन वि. शेषणविभक्तेः साधुत्वमात्रार्थकत्वं स्पष्टमेवोक्तम् । विभक्त्यर्थप्रातिपदिकार्थविशेष्यकपुरुषादिप्रकारक बोधस्याऽननुभवाच्च । अत एव
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy