SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । ५९५ 'तण्डुलः शुभ्र' इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे(१)त ण्डुलादेस्तम्य च शुक्ल अभेदेनैवान्वयः। 'शुभ्रंण तण्डुलेन' इत्या दौ च विशेषणविभक्तिरभेदार्थिका, पार्टिको वाऽन्वय इति ना. स्तण्डुलः शुभ्र इत्यादी व्यभिचारोऽत आह-तण्डुलः शुभ्र इति* ॥ * अभेदेनैवान्वय इति। तथाचवमेव कल्पयेदित्यभिप्रेत्याह-* अथे. ति॥शुभ्रण तण्डुलेनेत्यादौ व्यभिचारमाशय निराचष्टे-*अभेदार्थिः केति* ॥ अथवा कट इव तत्समानाधिकरणभीमाऽऽदिभ्यो द्वि. तीयादिविभक्तेरनभिहितसूत्रे भाष्यकृताऽभिधानातू सामानाऽधि. करण्यसमानाधिकरणयोर्विशेष्यविशेषयोभीवस्याभेदस्य विशेषण. पदोत्तरविभक्त्यर्थत्वलाभात् तत्रापि शुभेणेति तृतीयाजन्याभदोप. स्थितिसत्त्वान्न व्यभिचार इति भावः। नन्वत्र अभेदो यदि भेदत्वाऽवच्छिन्नाऽभावस्तदाऽप्रसिद्धिः । भेदस्य केवलाऽन्वयित्वात् । यदि भेदप्रतियोगिकाऽभावस्तदा नी. लो वह्निरिति वाक्यस्य प्रामाण्यापत्तिद्धित्वादिना नीलभेदाभावस्य वही सत्वाद् विशेषणविभक्त्यर्थैकदेशे भेदे प्रकृत्यर्थस्थानन्वया. पत्तिश्च । नच भेदेऽभावे च द्वितीयादेः शक्तिः । भेदे च प्रकृत्यर्थस्य प्रकृत्यर्थताऽवच्छेदकावच्छिन्नप्रतियोगिताकत्वेनाऽन्वयः । उक्तस. म्बन्धेन प्रकृत्यर्थविशिष्टभेदस्य तु तत्वाऽवच्छिन्नप्रतियोगिताकत्वेनाऽभावेऽन्वयोपगमानोक्तापत्त्यादिरिति वाच्यम् । 'प्रमेयो घट' इत्यादौ प्रमेयत्वाऽवच्छिन्नभेदाऽप्रसियोक्तप्रकाराऽसम्भवात् । नीलपदादिपरनीलपद्घटितनीलो घट इति वाक्यस्य प्रामाण्याऽऽप. त्तेश्च । नीलत्वादिना नीलभेदाभावस्य घटेऽबाधात् । नच तपक्तित्वावच्छिन्नाऽभेद एव विभक्त्यर्थः। तथा सत्यपू. (१) प्रातिपदिकार्थकप्रथमेति । प्रातिपदिकस्य अर्थो यस्याः स्तादृशी या प्रथमा तदर्थ इत्यर्थः। पाक इत्यादौ व्यापारस्येव प्राति. पदिकार्थस्यापि द्वेधा भानं, विभक्त्या सत्वरूपेण स उपस्थाप्यते इति विरूपोपस्थितेः सत्वेनाभेदान्वयसंभव इतिभावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy