________________
२९४ दर्पणसहिते वैयाकरणभूषणसारे मासोत्तरविभक्तेः कल्प्यत इति चेन्न । अक्लुप्तकल्पनां क्लुप्तव्यु. त्पत्ति(१) त्यागश्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिक् । ____ अपिच समासे विशिष्टशत्यस्वीकारे 'राजपुरुषः' 'चित्रगुः' 'नीलोत्पलम्' इत्यादी सर्वत्रानन्वयप्रसङ्गः । राजपदादेः सम्बन्धिनि लक्षणायामपि, 'तण्डुलः पचतिः' इत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेतुनाया आवश्यकत्वात् पुरुषा. देस्तथात्वाभावात् ।
*अक्लत्पकल्पनामिति* । समस्यमानपदाऽर्थविषयतानिरूपित. विषयतासम्बन्धेन शाब्दं प्रति विशेष्यतासम्बन्धन प्रत्ययजन्योपस्थितेः कारणत्वाऽन्तरकल्पनामित्यर्थः ।।
ननु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वरूपा व्याससमाससाधारण्यकैव व्युत्पत्तिः । सन्निहितत्वं च प्रकृतिघटकत्वे सति प्राग्वर्तित्वमिति नोक्तदृषणमत आह-*दिगिति* ॥ तथा कल्पने चोक्तव्युत्पत्त्यपेक्षया पदत्वस्य प्रकृतित्वघटितस्य व्युत्पत्तीनिवेशे गौरवमित्यादिदिगर्थः ।
ननु प्रत्ययानामिति व्युत्पत्तेः प्रकृतिप्रत्ययघटिततया तत्र प्रकृ. तित्वप्रत्ययत्वयोरनुगतयोर्दुर्वचत्वेन तत्तयक्तिभेदेन कार्यकारण. भावो वाच्यः। तथाच समासस्थले समस्थमानपदार्थस्य प्रत्यया.
र्थान्वयाऽभ्युपगमे बाधकाऽभावोऽत आह -*अपिचेति* ॥ *अन. न्वयप्रसङ्ग इति* ॥ नामार्थयोरिति व्युत्पत्तरिति भावः।
अनन्वयमेवाह-*राजपदादेरिति* ॥ लक्षणायामपीत्यपिना सम्बन्धलक्षणायां नितरामन्वयाऽभावः सूयते । नचोक्तव्युत्पत्ते.
(१) क्लप्तव्युत्पत्तीति । प्रत्ययानां प्रकृत्यन्वितस्वार्थबोधकत्व. रूपव्युत्पत्तित्यागमित्यर्थः।