________________
समासशक्तिनिर्णयः ः ।
२९३
नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्त्रयः । 'पाकानील:' 'धर्मात् सुखी' इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रम्, तच्चात्राविरुद्धमिति, तन्न । घटं पश्येत्यत्र घटपदात् स. मवायेनोपस्थिताकाशवारणाय दृश्या प्रकृत्यर्थत्वस्यावश्यक
त्वात् ।
अथ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमिति चेन्न । 'गामानयति कृष्णो दण्डेन' इत्यत्र कृष्णे तृतीयाथन्वयप्रसङ्गात् । अथ समस्यमानपदार्थगत स्वार्थबोधकत्वं स
*विशेषणतयेति* ॥ एकत्र विशेषणतयाचरुद्धस्यापरत्र तदन्वये नैराकाङ्क्षयादिति भावः । यत्र क्वाऽपि विशेषणेनापरान्वय इति यथाश्रुतं दूषयति- * पाकानील इत्यादि ॥ नीलत्वसुखयोः स्वाश्रये विशेषणतयान्वितयोः पाकादित्याद्यन्तर्गतपञ्चम्यर्थहेतुत्वस्यानन्वयापत्तेरित्यर्थः ॥ *तज्जन्यज्ञानविषयत्वमिति ॥ तत्पदार्थः प्रकृतिः। मात्रपदेन वृत्तिप्रतिपाद्यत्वस्य व्यवच्छेदः । अत्र चित्रग्वादिसमासाऽन्तर्गतगवादिपदार्थे इत्यर्थः॥*अविरुद्धमिति* अबाधितमित्यर्थः । घटं पश्येत्यत्र दृशिर्ज्ञानसामान्याऽर्थः ॥ *आकाशवारणायेति*॥ समवायनोपस्थिताकाशे दृश्यर्थकर्मत्वाद्यन्वयवारणायेत्यर्थः ॥ *वृत्या प्रकृत्यर्थत्वस्येति* ॥ वृत्तिजन्योपस्थितिविषयत्वस्येत्यर्थः ।
'वादिवाक्ये यावन्तोऽर्थाः सम्भवन्ति' इति न्यायेनोक्तव्युत्पत्ति दूषयितुमर्थान्तरपरतया व्याचष्टे -*अथेति ॥ पूर्व तु प्रत्ययसन्निहितपदार्थत्वं प्रकृतित्वमत्र तत्तत्प्राग्वर्त्तिपदार्थत्वमिति भेदः ॥ *प्र सङ्गादिति ॥ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविषयतायाः कृष्णे सत्त्वादिति भावः (१) ॥ प्रत्ययानामिति व्युत्पत्तेरेकार्थीभाववादिमते सत्वेऽपि नाऽस्मन्मते सा सार्वत्रिकी । समास एवाऽसम्भवात् । किन्तु प्रकृते व्युत्पत्यन्तरमेव कल्प्यते इत्यभिप्रेत्याह *अथेति ।
(१) अव्यवधानांश निवेशे तु 'उपकुम्भम्' इत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयानापत्तिरिति भावः ।