________________
दर्पणसहिते वैयाकरणभूषणसारे
नच तत्रापि सन्निधानमेव । आनुशासनिकसन्निधेर्विवक्षि तत्वात् । तथाच यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं स्वार्थं बोधयति । समासे च समस्यमानपदोत्तरमेवानुशासनमिति वा यम् | अर्थवत्त्रे विशिष्टस्यैव प्रातिपदिकत्वेन विशिष्टोत्तरं विभक्त्यनुशासनात् ।
अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि, 'पङ्कजमानय', 'दण्डिनं पश्य', 'शूलिनं पूजय' इत्यादौ पङ्कदण्डश्लेष्वानयनदर्शन पूजन देरन्वयप्रसङ्गात् ( १ ) । ' अघट - मानय' इत्यत्र घटेऽप्यानयनान्वयापत्तेश्च ।
२९२
* आनुशासनिकेति । सन्निहितत्वं चाऽव्यवहितपूर्वत्वम् । तस्वेनाऽनुसन्धीयमानत्वं वा । धवखदिरावित्यादौ धवादिपदार्थे विभ. क्त्यर्थानन्वयप्रसङ्गात् । किन्तु सन्निहितत्वेनाऽनुशासनबोधितत्वम् । तच्च धवादिपदार्थानामिवोपादिपदार्थानामस्तीत्याशयवानाह तथा• चेति* | *समस्यमानपदोत्तरमिति । समासस्याऽनेकपदसमुदाया. त्मकतया समुदायस्य प्रत्येकाऽनतिरिक्ततया समासरूपप्रातिपदि • कादू विहितविभक्तेस्तत्तत्पदसन्निहितत्व' दिति भावः ।
सम्भवेदेवं यदि समासग्रहणनिबन्धना प्रातिपदिकसंज्ञा, किन्तु तस्य नियामकतया पूर्वसूत्रेणैव सा वाच्या । तथाचोक्तप्रकाराऽसम्भव इत्याशयेनाह *अँर्थवत्सूत्रेणेति ॥ तथाच शास्त्रबोधितसन्नि हितत्वमपि विशिष्टस्यैव, न केवलपूर्वपदस्येत्युक्तस्थले व्यभिचारो दुरुद्धर इति भावः । प्रकृतित्वस्य पर्याप्त्याख्य विलक्षणसम्बन्धेन समुदायमात्रविश्रान्तत्वेऽपि केवलाश्रयतया तद्वत्त्वस्य प्रत्येकदेशेऽपि सम्भवादुक्तव्युत्पत्तिशरीरे आश्रयतैव निवेशनीयेत्याशयेन शङ्कते - *अथेति* ॥ प्रकृतित्वाश्रये - प्रकृतित्वाश्रयार्थे । असन्निहितप्रकृत्यर्थे दूषणमुद्भाव्य सन्निहितेऽपि तदाह - *अघटमिति ॥ पूर्वपदार्थप्राधान्यमत्रेत्याशयेन दूषणेोद्भावनम् । तत्त्वं चाऽग्रे वक्ष्यते ॥
(१) आनयनादिकर्मत्वान्वयप्रसङ्गादित्यर्थः । इष्टापत्तिस्तु कर्तु - मशक्याऽसत्यपि तात्पर्ये लक्षणां विना तादृशान्वयबोधाननुभवात् ।