SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २९१ नां प्रकृत्यर्थान्वितस्वार्थबोधजनकत्वव्युत्पत्तेः । विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् । यतु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युपत्तिरेव कल्पत इति । तन्न । 'उपकुम्भम्', 'अर्द्धपिप्पली' इत्यादौ (१) पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचा ररात् । प्रत्ययविधानाऽवधित्वं, न तु प्रत्ययाव्यवहितपूर्वत्वम् । बहुपटुरित्यादौ पद्मादिशब्देऽव्याप्तेः । न च "तावेव सुप्तिङो यौ ततः परौ, सैव च प्रकृत्तिराद्या" इति भाष्यात् प्रत्ययाऽव्यवहितपूर्वस्यैव प्रकृतित्वलाभ इति वाच्यम् । तदर्थानवबोधात् । यौ ततो विधानाबधेरसति विशेषानुशासने परौ तावेव सुप्तिङावित्युपलक्षणं, प्रत्ययान्तरस्याऽपि । यतो विहितौ सैव प्रकृतिरिति तदर्थात् । आद्येत्यभ्यासाऽभिप्रायेण । तथाच समा सोत्तरपदस्य विधानावधित्वरूप प्रकृतित्वाऽभावेन तदर्थे न कर्मत्वा ऽऽद्यन्वयः सम्भवत्युक्तव्युत्पत्तिविरोधादिति भावः । प्रत्ययानामिति व्युत्पत्तिर्हि दण्डिनमानयेत्यादौ दण्डादौ कर्मत्वाऽन्वयवारणाय स्वीक्रियते । तदर्थश्च 'प्रकृत्यर्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्य यजन्योपस्थितित्वेन हेतुता' इति तत्र प्रकृते सन्निहितत्वेनैव निवेः शस्तावतैवोक्तस्थले व्यभिचारवारणान्न तु प्रकृतित्वेन, गौरवादिति मतं दूषयितुमुपन्यस्यति *यत्त्विति । *सन्निहितेति * । सन्निहितत्वं चाव्यवहित पूर्वत्वेनाऽनुसन्धीय. मानत्वम् । तस्य च चित्रग्वादिपदे गवादौ सत्वान्नोक्ताऽनुपपत्तिरिति भावः । व्युत्पत्तिरेवेत्येवकारेण पूर्वोक्तप्रकृतिस्वघटितव्युत्पत्तिव्यवच्छेदः । उपकुम्भादौ व्यभिचारोद्भावनं तु प्राचीनमते । नव्यनये तत्रोत्तरपदे लक्षणाऽभ्युपगमेन तदप्रसक्तेः। तत्राऽपि = उपकुम्भादिसमासेऽपीत्यर्थः ॥ (१) आदिना 'पूर्वकायः' 'धवखदिरों' इत्यादीनां संग्रहः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy