SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० दर्पणसहिते वैयाकरणभूषणसारे हिम (१) । किञ्चैवं, चित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वयापत्तिः, प्रत्यया · प्रत्ययपरिभाषया तदन्तग्रहणं संज्ञाविधावित्यस्य प्रायिकत्वात् (२) । उत्तरादिवत्केवलकृतामप्रयोगेण तदुपादानवैयर्थ्याच्च । यद्यप्युक्तयुक्त्या तद्धितपदस्यापि तद्धितान्तपरतैव लभ्यते तथापि बहुपट्वादिसङ्ग्रहाथ तत्स्वान्यवहितोत्तरत्वसम्बन्धेन तद्धितविशिष्टप्रकृ. तिघटितसमुदायतद्धितान्तान्यतरपरतया व्याख्येयम् । प्रकृतित्वं च प्रत्ययविधानावधित्वम् । इयानित्यादौ तु प्रत्ययस्यैव तदन्तत्वान्न दोषः । पचतक्यादिसमुदायान्तर्गततद्धितप्रकृतेनिरुक्ततद्धितवैशिष्टयाभावान्न तत्राऽतिप्रसङ्गः । कृद्ग्रहणपरिभाषा - या(३)अनन्तरग्रहणज्ञापिताया असार्वत्रिकत्वाच्च, न मूलकेनोपदंश. मित्यादावतिप्रसक्तिः । एवं समासग्रहणेनाध्यप्राप्तप्रातिपदिकसंज्ञाविधानाद्राजपुरुष इत्यादिसमुदायात् स्वाद्युत्पत्तिः सुलभेति तत्र विशिष्टशक्त्यभ्युपगमो निष्प्रमाणकः । वाक्यस्य सा नेत्युक्तमेव तत्र कोशादिना शक्त्यपरिच्छेदात् । यत्र तु कोशादिकं परिच्छेदकं, तत्र समासे पङ्कजादौ तां न निवारयामः । एवञ्च वाक्यस्याऽर्थवत्त्वाऽभावेन प्रातिपदिकसंज्ञाऽ प्रसक्तेस्तदवृत्तिरूपफलाऽभावेन समासग्रहणस्य नियमार्थत्ववर्णनमसाम्प्रतम् । भाष्ये तस्य नियमपरतया वर्णनं तु संसर्गस्य शक्यत्वमित्येकदेशिमतमनुसृत्यैवेत्यरुचेराह * किश्चैवमिति । एवं-समासे विशिष्टशक्तयस्वीकारे । कर्मत्वाद्यनन्वयापत्तिरित्यस्य गवादिपदार्थे इति शेषः । तत्र हेतुमाह * प्रत्ययानामिति । तथाच प्रकृतित्वं (१) समासोऽर्थवान् प्रातिपदिकत्वात्, यन्नार्थवद् न तत् प्रातिपदिकम, अभेदविवक्षापक्षे, भू-इत्याद्यनुकरणवत्, इति । (२) प्रायिकत्वादिति । "कृदतिङ्,” इत्यादिस्थलेषु दोषापच्या "संज्ञाविधौ” इत्यस्य ज्ञापकसिद्धत्वेन 'ज्ञापकसिद्धं न सर्वत्र' इति म्यायेनाप्रवृत्तिरिति भावः । वस्तुतस्तु परिभाषैव न कर्तव्या फळाभावादित्याद्यन्यत्र स्पष्टम् | (३) अनन्तरग्रहणेति । "गतिरनन्तरः" इतिसूत्रस्थ 'अनन्तर' ग्रहणज्ञापितेत्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy