________________
समासशक्ति निर्णयः ।
२८९
मस्तु । तथाच अतिपू-सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादितिचेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायाऽर्थवत्त्वाऽऽवश्यकत्वेन समासाऽव्याप्तितादवस्थ्यमेव । तथाच प्रातिपदिकसंज्ञारूपं काय्र्यमेवार्थवत्वमनुमापयति धूम इव
बन्तभिन्नं यत्तत्प्रातिपदिकमित्यर्थेन समासस्य प्रातिपदिकत्वला भादतिरिच्यमानं समासग्रहणं नियमार्थमस्त्वित्यर्थः । * प्रत्येकं व र्णेष्विति । वर्णानामानर्थक्यपक्षे प्रातिपदिकसंज्ञायां प्रकाशनीयाs र्थाभावादविशेषेण प्रतिवर्ण विभक्तिसम्भवादव्ययादिवेति भावः । *अर्थवत्त्वेनेति* । अर्थवद्ग्रहणस्यावश्यकत्वेनेत्यर्थः ॥
न चाऽर्थवत्समुदायघटक वर्णानामर्थवत्त्व पक्षस्याऽपि भाष्ये दर्श नात्तद्हणेऽपि विभक्तिर्दुवारेति वाच्यम् ॥ तत्पक्षेऽपि "सङ्घातस्यै • कार्थ्यात् सुबभावो वर्णात्" इति भाष्यात्तन्त्रेणैकैव विभक्तिः समुदायाऽवयवार्थगतमेकत्वं बोधयेत् । एकमेव यदकेत्वं तच्चैकेन सुवा प्रत्यायितमिति बोधनीयाऽभावाद् विभक्तेः प्रत्येकवर्णादनुत्पतेरिति भावः ॥
ननु समासवाक्यस्याऽर्थवत्त्वाऽभावेऽपि न प्रातिपदिकसंज्ञाs नुपपत्तिः । " कृत्तद्धित" ( पा० सू० १ । २ । ४६ ) इति सुत्रेणैव तत्सम्भवात् । सम्भवति विधित्वे नियमकल्पनाया अन्याय्यत्वात् । समासग्रहणमेव च समास एकार्थीभावे वा मानम् । वाक्यस्य तु न पूर्वसूत्रेण तत्प्रसक्तिरर्थवत्त्वाऽभावात् । संसर्गस्याऽशक्यत्वेऽप्या काङ्क्षादिवशादेव तद्भानस्य सूपपादत्वात् । एवं प्रकृतिप्रत्ययसमुदायस्याऽप्यनर्थकत्वेनाऽप्राप्तसंज्ञाविधानार्थं कृत्तद्धितग्रहणमिति स मस्तस्यैव सूत्रस्य विधायकत्वम् । आद्यसूत्रस्य तु अभ्युत्पन्नसाधुशब्दस्वरूपमेव, न तु बहुवटुरित्यादिसमुदायोऽप्युत्तरपदलाक्षणि कतादृशसमुदायस्याऽर्थवत्त्वाभावात् । कृदन्तानां केषाञ्चिदर्थवत्त्वेऽपि धातुत्वादेवं तद्धितानामपीयानित्यादीनां प्रत्ययत्वेन तादृशसमुदायस्य त्वनर्थकत्वेन पूर्वसूत्राऽविषयत्वेन तत्र तत्र प्रातिप· दिकत्वविधानार्थ सूत्रकारेण द्वितीयं सूत्रं प्रणीतम् । अत एवाऽत्रार्थवदिति नाऽनुवर्त्तते ऽसम्भवात्प्रयोजनाभावाच्च । तत्र कृच्छन्देन
३७