________________
૨૯૮ दर्पणसहिते वैयाकरणभूषणसारे ___ अथ "तिप्तसझि” इत्यारभ्य, “योस्सुप्" इति तिप्प. त्याहारो भाष्यासिद्धस्तमादाय "अतिपातिपदिकम्"इत्येव मू. ज्यतां, (१)कृतमर्थवदादिमूत्रद्वयेन । समासग्रहणश्च नियमार्थ
. नव नदपिदस्य द्रव्यवाचकतया साक्षात्सम्बन्ध एव लक्षणायां विनिगमक इति वाच्यम् । गभीरपदस्याऽपि नित्यं गुणिवाचकतया तदर्थस्याऽपि साक्षात्सम्बन्धाऽविशेषात् । तस्मात् पदद्वयलक्षणायां गौरवात् समुदाय एव साऽङ्गीकार्या। अत एवार्थवादवाक्यानां प्राशस्त्ये लक्षणेति सङ्गच्छते। किन्तु स्वबौध्यरुपैव सा । अ. स्ति च गभीरायां नद्यामित्यत्र वाक्यशाप्या गभीराभिन्ननदी तत्स. म्बन्धस्तीरे इति । एवञ्च चित्रगुरित्यादिसमुदायस्य लक्षणया चि. त्राऽभिन्नगोस्वामिरूपार्थबोधकत्वरूपाऽर्थवत्त्वात प्रातिपदिकसंज्ञा ना उनुपपन्नेत्यत आह-*समासवाक्य इति ॥ वाक्य इत्युक्त्या क्वचि. तत्सम्भवेऽपि सर्वत्र राजपुरुषादिसमासे तदसम्भवं सूचयति ।
अयमाशयः। स्वज्ञाप्यसम्बन्धस्य न लक्षणात्वमपभ्रंशेऽपि त. प्रसङ्गात् । किञ्च स्वज्ञाप्य इत्यस्य स्वनिष्ठज्ञापकतानिरूपकज्ञाप्यतावदर्थसम्बन्ध इत्यर्थो वाच्यः । तत्र शापकत्वं वृत्त्या बोधकत्वमुत शानजनकमानविषयत्वमात्रम् । नाद्यः। वाक्ये लक्षणाऽभावप्रसङ्गात् । तदर्थस्य गम्भीराभिन्नस्य वृत्त्यबोध्यत्वात् । नान्त्यः । प्रत्येक वर्णानामर्थवत्वापत्त्या विभक्त्यापत्तेरिति स्वशक्यसम्बन्धो लक्षणेत्येवा. ङ्गीकरणीयम् । तथाच समासे तदसम्भवेन प्रातिपदिकसंज्ञाऽनुपपत्तिस्तदवस्थेति तदर्थ विशिष्टशक्तिस्वकार आवश्यक हति ॥ ___*भाष्यसिद्ध इति* | "तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्" इत्यादेस्ताऽभिधानादिति भावः । *सूत्र्यतामिति । "अतिप्समा. सश्च प्रातिपदिकम्” (२)इत्येव सूत्र्यतामित्यर्थः । तथाच तिङ्सु.
(१) कृतमिति । अलमित्यर्थः । अर्थवदादिसूत्रद्वयं नारम्भणीयं किं तु 'अतिप्प्रातिपदिकम्' 'समासश्च' इति सूत्रद्वयं कार्यामत्यर्थः । ... (२) अतिप्समासश्च प्रातिपदिकमिति । वस्तुतस्तु सूत्रद्वयमि. स्यनुपदमेवोक्तम् ।