________________
- समासशक्तिनिर्णयः । वेन शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्वस्याप्यसम्भवात् (१)।
व्यावृत्तये वचनारम्भमाशङ्गय नियमार्थेन समासग्रहणेन समाहित. म् । समासे शक्त्यनभ्युपगमे तु तस्य वृत्त्यार्थबोधकत्वरूपाऽर्थव. स्वाऽभावेनाऽप्राप्तसंशाविषये तस्याऽऽवश्यकतया नियमाऽर्थत्वव्या. घातः स्पष्ट एव । तस्मादेतद्भाष्यमपि समासे विशिष्टशक्तौ मानमिः ति तत्रोक्तत्वादित्यर्थः ॥ ___ न चाऽर्थवत्पदसामर्थ्यनाऽर्थवाचकपदघटितेऽपि प्रातिपदिकसं. शासिद्धिरन्यथा धात्वादिपर्युदासेनैवाऽर्थवत्त्वे लब्धे तदुपादानवैयर्य स्पष्टमेव । दशदाडिमानीत्याद्यनर्थकसमुदायस्य तु नियमेन वारणीयत्वादिति वाच्यम् । अर्थवग्रहणस्योत्तरार्थतायाः सिद्धा. न्तसिद्धत्वे तत्सामर्थ्याऽभावाद्, "अर्थवग्रहणं संशिव्यपदेशार्थम्" इति भाष्येणाऽर्थवत्त्वेन सादृश्यबोधनार्थ तदुपयोगदर्शनाचेति वि. शिष्टशक्त्यभ्युपगममन्तरेण समासे प्रातिपदिकसंशादौर्भिक्ष्यमे. वेति भावः। ___ ननु चित्रगुरित्यादौ विशिष्टे शक्त्यस्वीकारेऽपि नाऽर्थवत्वनिब. न्धनप्रातिपदिकसंज्ञाऽनुपपत्तिः । तथाहि, न शक्यसम्बन्धो लक्षणा, 'गभीरायां नद्यां घोषः' इत्यादावसम्भवात् । तत्र तावन्न गभीरपदं तीरलक्ष नद्यामित्यस्याऽनन्वयापत्तेः। न हि तीरं नदी, अत एव नदीपदमपि न तथा। गभीरपदार्थस्यानन्वयापत्तेः । न च पदद्वये प्रत्येकं सा। विशिष्टनदीतीराऽभानप्रसङ्गात् । न च नदीपदेनैव ग. भीरनदीतीरं लक्ष्यते, गभीरादिपदं तात्पर्यग्राहकमिति वाच्यम् । गभीरपदस्य तात्पर्य्यग्राहकत्वमुत नदीपदस्यति विनिगमनावि. रहात्।
(२) ननु “यत्तव्यपेक्षावादिनो नैयायिकमीमांसकादय" इत्यारभ्य अस्य ग्रन्थस्य प्रवृत्त्या मीमांसकमते नायं दोषः संभवति, स्वबोध्य. सम्बन्धत्वरूपलक्ष्यणायास्तैः स्वीक्रियमाणत्वादितिचेत् नैयायिक प्रत्येवैतदुच्यते । किञ्च मीमांसकमतं तत्सम्भवेऽपि निरूढलक्षणायाः शक्तितुल्यतया शाद्विकाभिमतसिद्धिरिति ।