SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८६ दर्पणसहिते वैयाकरणभूषणसारे तश्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यैः रित्याहुः । . अत्रोच्यते । समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । अर्थवत्त्वाभावाद्, “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (पा० सू० ७।१। ४५) इत्यस्यापत्तेः । न च, "कृत्तद्धितसमासाश्च" (पा० सू० १। २ । ४६ ) इत्यत्र समासग्रहणात् सा । तस्य नियमार्थताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् । समासवाक्ये शक्त्यभा. . नच क्षौमवसानावग्निमादधीयातामित्यत्र समुच्चयलाभो न स्या. दिति वाच्यम् । “यत् कर्तव्यं तदनया सह" इतिवचनान्तरात्तत्सि. द्धेः । यद्यपि द्वन्द्वे परस्परान्वयित्वरूपव्यपेक्षा दुर्घटा, तथापि “चा. ऽर्थे द्वन्द्वः” (पा० सू०२ । २ । २९ ) इति विधिसामर्थ्यादेव तत्र समासः, तदर्थस्तूक्तः । समुच्चयान्वाचययोस्त्वनभिधानादेव न द्वन्द्व इति स्पष्टं भाष्ये । यत्त्वेकस्यां क्रियायामेकरूपेणाऽन्वयित्वमेव तत्र सामर्थ्यमिति । तन्न । कचिदेतस्य क्वचितू पूर्वोक्तस्य सामर्थ्यस्याश्र. यणे समर्थसूत्रे वाक्यभेदापत्तेरिति पूर्वोक्तापत्तिमिष्टत्वेनाऽपि परि. हरति ॥ *स्वीकृतमिति ॥ - *चरमवर्णस्यैवेति । पूर्वपूर्ववर्णाऽनुभवजन्योबुद्धसंस्कारस. हिताऽन्तिमवर्णस्येत्यर्थः । नाऽतः केवलचरमवर्णाऽर्थबोधापत्तिः । अधिकमग्रे वक्ष्यते । “व्यपेक्षायां सामर्थे समास एकोऽसङ्गृहीतो भवति" इति भाज्याशयं प्रकाशयन्नयायिकमतं दूश्यति-*अत्रोच्यते इति* । संशादीत्यादिना पदत्वादि (१)परिग्रहः ॥ *भाष्यसिद्धाया इति । "समासग्रहणमर्थवत्समुदायानां नियमार्थम्" इति भाग्य. सिद्धाया इत्यर्थः। *स्पष्टमिति* । वाक्यस्याऽप्यर्थवत्वेन प्रातिपदिकत्वप्रसक्ती त (१) आदिपदम् सुब्लुक्, समुदायात्पुनःसुबुत्पत्तिः, अनुदात्तं पदमेकवर्जम्, इत्यादीनां प्रवृत्तिग्रहणार्थम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy