SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ - समासशक्तिनिर्णयः। . युक्तं चैतत् । द्वन्द्वत्वाऽवच्छिन्नस्य प्रधान भूतार्थद्वयप्रतिपादकत्वे एव, “द्वन्द्वः सामासिकस्य च" (गीता) इत्यनेन समाससमूहमध्ये द्वन्द्वस्य विभूतितया पारिगणनस्य भगवत्कृतस्य सङ्गतेः। विशिष्टशक्त्या लक्षणया वा तस्य प्रधानीभूतसमाहारप्रतिपादकत्वे तु समासान्तराद् द्वन्द्वस्याऽविशेषात्तदसङ्गतिः स्पष्टैव । . यत्तु भारतभावदीपे-सममेकत्राऽऽसनं समासो, विदुषां गुरुशिप्याणां वा मन्त्रार्थ कथार्थ वैकत्राऽवस्थानम् । तत्र विदितमर्थजातं सामासिकम् । चातुरर्थिकष्ठक् । तस्य, "ठस्येक" ( पा० सू०७।३। ५०) इतीकादेशः। “यस्येति च" ( पा० सू०६ । ४ । १४८) इत्य. लोपः । तस्य मध्ये द्वन्द्वो रहस्योऽहम् । "द्वन्द्वं रहस्य" ( पा० सू० ७।१।१५) इति सूत्रे द्वन्द्वशब्दस्य रहस्यवाचित्वं शाब्दिकप्रसिद्धमिति व्याख्यातम् । '' तत्त विदिताऽर्थस्य चतुरामदर्शनाद्रथन्तराधिकरणन्यायेन सङ्केतितसमासशब्दात् पारिभाषिकसमासरूपाऽर्थस्यैवोपस्थितेरुचितत्वेन प्राप्तस्य सामूहिकठकः समासशब्दात्तदनभिधानात । ". न्द्वं रहस्य" (पा० सू०८।१ । १५) इत्यनेन रहस्ये व्युत्पादित न्द्वस्य नित्यनपुंसकत्वेन पुल्लिङ्गस्य तद्वाचित्वाऽसम्भवात् । समास. वाचिनश्च तस्य पुंल्लिङ्गतायाः "चाऽर्थेद्वन्द्वः'(पा० सू०२।२।२८) इत्यादौ दृष्टत्वात् पारिभाषिकत्वाच्च तेन समासस्यैव ग्रहणस्यो. चितत्वाच्च चिन्त्यम् । __ न च साहित्यामानेऽप्येतस्य क्रियाऽन्वयविवक्षायां, पश्य धवं, खदिरं छिन्धीतिवाक्यवत् पश्य धवखदिरौ छिन्धाति प्रयोगापंत्ति. रिति वाच्यम् । प्रत्ययाऽर्थद्वित्वाऽवच्छिन्नधर्मिकस्यैव पदार्थाऽन्तरान्वयबोधस्याऽन्यत्र दर्शनेनाऽत्रापि तदवच्छेदेनाऽन्वयस्यैवोचि. तत्वात् । . नच द्वित्वाऽन्वययोग्यतावच्छेदकसाहित्यभानमन्तरेण द्वित्वा ऽन्वय एव दुर्लभ इति वाच्यम् । योग्यताऽवन्छेदकोपस्थितेरनपेक्षा णाद् उपस्थिते योग्य एव तदन्वयात् । अत एव, घटेन जलमानयेत्यत्र छिद्रेतरस्यैव योग्यताबलेनाऽन्वयः । न तु छिद्रतरत्वप्रकार. कः शाब्दबोधः । तत्राप्रकृत्यर्थतावच्छेदकस्यैव द्वित्वान्वययोग्यतावच्छदकत्वेऽपि क्षतिविरहाच्च । विवेचितं चेदमधिकमन्यत्र ।।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy