SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८४ दर्पणसहिते वैयाकरणभूषणसारे कल्प्यते । विशिष्टस्यैव सङ्केतितत्वात् । बोधकत्वस्यापि (१)प्रसेकं वर्णेष्वसत्त्वात् । प्रकृते चासन्तसन्निधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः । स्वीक चयति-*विशिष्टस्यैवेति* ॥ व्यवहारादिना तत्रैव तन्निर्धारणादिति भावः॥ असत्वादित्यस्य,येन तत्राऽपि विनिगमकगवेषणा स्यादिति शेषः ॥ * उत्तरपद इति* ॥ प्राप्तोदकादिघटकोदकादिपदे. इत्यर्थः ॥ सा-लक्षणा ॥ *विशेष इति* ॥ घटादिपदात् समासस्य लक्षणाया वैषम्यमित्यर्थः ।। - अत्रेदं बोध्यम् । उक्तयुक्त्योपकुम्भमित्यादावुत्तरपदस्यैव समी. पार्थे लक्षणा, पूर्वपदं तत्पार्यग्राहकम् । तत्पुरुषेऽपि क्वचिदर्द्धपि. प्पलीत्यायेकदेशिनि चरमपदस्यैव सा । पिप्पल्य द्यर्थे इतर द्यो. तकम् । नीलोत्पलमित्यादिकर्मधारये तु न काऽपि सा, प्रत्येकपद. शक्त्युपस्थितयोरभेदाऽन्वयसौलभ्यात् । बहुव्रीहौ तूत्तरपद एव सेति सार एव व्यक्तम्। पाणिपादमित्यादिद्वन्द्वेऽप्युत्तरपदस्य पा. णिपादसमाहारे लक्षणा पदान्तरं द्योतकम् । तत्रैव परम्परया वादनकर्मत्वान्वय एवमितरेतरयोगद्वन्द्व साहित्यापनप्रत्येकपदार्थयोरु. त्तरपदस्यैव सा । अत एव द्विवचनाद्यर्थीद्वत्वाद्यन्वयस्तत्र । समाहारद्वन्द्वे साहित्यं विशेष्यमत्र तु विशेषणमिति भेदः। .. यद्वा, समाहारद्वन्द्वऽपि साहित्याऽप्रतीतेन तत्र लक्षणा, किन्तु प्रत्येकपदशक्त्युपस्थाप्ययोरेव साक्षाद्वादनकर्मत्वाऽन्वयः। “द्व. न्द्वश्वप्राणि" (पा० सू० २।४।२) इति प्रकरणाादीनष्ठिकत्वसमास. स्य समाहारपदव्यपदेश्यत्वम्। इतरत्र तु तद्यवहार औपचारिकः। नपि इतरेतरयोगे तत्प्रसङ्गः। एवमितरेतरयोगे द्वन्द्वेऽपि न लक्षणा । एकस्मृत्यारूढपदद्वयात् प्रत्येकशक्त्युपस्थिताऽर्थयोर्द्वित्वाऽन्वय. सम्भवात् । एकक्रियाऽन्वयित्वरूपस्य एकबुद्धघऽवच्छि. मत्वरूपस्य वा साहित्यस्य पश्चादेवाऽवगमेन पूर्व तत्र लक्षणा. प्रहाऽसम्भवाच्च । चाऽर्थे द्वन्द्व इत्यस्य चाऽर्थाऽन्वययोग्य इत्यनतद्विरोधोऽपि। (१) बोधजनकत्वपर्याप्त्यधिकरणस्यापीत्यर्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy