SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 'समासशक्तिनिर्णयः । २८३ न च शक्त्यग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति । अत एत्र राज दिपदशक्त्यग्रहे 'राजपुरुषः ' 'चित्रगुः ' इत्यादौ न बोधः । नच चित्रगुरित्यादौ लक्षणा संभवेऽप्यपष्ठयबहुव्रीहौ लक्षणाया असंभवे बहुव्युत्पत्तिभञ्जनापत्तेरिति वायम् । 'प्राप्तोदकः' इत्यादावुदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगत स्वार्थबोधकत्वव्युत्पच्यनुरोघाच्च । घटादिपदे चातिरिक्ता ( १ ) शक्तिः कल्प्यमाना विशिष्टे वययशक्तिमजानतोऽपीत्यपिना दृष्टान्तदाष्टन्तिकयोर्वैषम्यं सुच्यते ॥ * शक्त्यग्रहे* ॥ अवयशक्तिग्रहाऽभावे ॥ *तेभ्यः ॥ पङ्कजादिपदघटकाऽवयवेभ्य इत्यर्थः ॥ * विशिष्टाऽर्थप्रत्यय इति ॥ पद्मत्वा SSदिरूपेण पद्माऽऽदिबोध इत्यर्थः ॥ लक्षणायाः शक्तिघटकत्वादिति भावः ॥ *अत एवेति ॥ तत्पदीयलक्षणाग्रहे तत्पदशक्तिज्ञानस्य हेतुत्वादेवेत्यर्थः ॥ उत्तरपदलक्षणायां विनिगमकमाह-*यौगिकत्वेनेति* ॥ विलम्बितत्वादित्यनेन शीघ्रोपस्थितिकत्वमुत्तरपदलक्षणायां विनिगमकमिति सूचितम् ॥ ननु व्युत्पत्तिपक्षे यौगिकत्वमुदकाऽऽदिपदानामपि सममत आह*प्रत्ययानामिति* ॥ यथाश्रुतप्रकृत्यर्थत्वस्योदकादौ बाधात् प्रकृ· त्यर्थपदमन्यथा व्याचष्टे -*सन्निहितेति ॥ दण्डिनमानय, इत्यादौ व्यवहितपदार्थे दण्डादौ कर्मत्वाद्यन्वयवारणाय सन्निहितेति । तथाच "अणुरपि विशेषोऽव्यवसायकर” इति न्यायेनोत्तरपद एव लक्षणेति न बोधाऽऽवृत्तिरूपदूषणमपीति भावः । पूर्वोकदूषणान्त ग्मुद्धरति - *घटादिपदे चेति ॥ कल्प्यमानेत्युक्त्या अक्लृप्तत्वं सू. (१) अतिरिक्तेति । तद्भटकधात्वादिशक्त्यतिरिक्तेत्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy