________________
दर्पणसहिते वैयाकरणभूषणसारे
विशेषणान्वयः । न वा ( १ ) घनश्यामो निष्कौशाम्बिगरथ इत्यादी इवादिप्रयोगापत्तिः । उक्तार्थतयेव क्रान्तादिपदप्रयोगासम्भवात् । न वा, "विभाषा" ( पा० सू० २ । ७ । ११ ) इतिसूत्रावश्यकत्वम् । लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियम ( २ ) सम्भवात् । नाऽपि पङ्कजपदप्रतिबन्दी शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि बोधात् ।
૨૮૨
*विशेषेणान्वय इति* ॥ “पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेरिति भावः ॥ ननु 'गभीरायां नद्यां घोष' इत्यादौ नदीपदलक्ष्यनदीतीरार्थैकदेशनद्यादौ गभीराद्यन्वयवदत्राप्येकदेशाऽन्वयो दुर्वार इति बेन्न । दृष्टान्ताऽसिद्धेः । तत्राप्येतन्मते नदीपदस्य गभीरनदीतीर. लक्षकतावा गभीरतात्पर्य्यग्राहकतायाश्च वक्ष्यमाणतया अदोषात् तादृशव्युत्पत्तेः ससम्बन्धिव्यतिरिक्तविषयतया चैत्रस्य नप्तेत्यादावेकदेशान्वयेऽपि क्षतिविरहादिति ॥
*उक्तार्थतयेति* ॥ तत्र निरादीनां द्योतकतया कौशाम्ब्यादिपदस्यैव कौशाम्ब्यवधिक निष्क्रमणकर्त्राद्यर्थे लक्षणाऽभ्युपगमेनैवेप्सितार्थबोधोपपत्ती क्रान्तादिशब्दानामुपादानाऽसम्भवादित्यर्थः ॥ *आवश्यकत्वमिति* ॥ तेन पारायणादावदृष्टार्थकतया स्पष्टप्रतिपत्त्यर्थकतया वा तदुपयोगेऽपि न क्षतिरिति भावः ॥ *प्रतिबन्दी - ति* ॥ पङ्कजादिपदे पद्मत्वादिविशिष्टशक्त्यभ्युपगमरूपेत्यर्थः ॥ अ
(१) घनश्याम इत्यत्र घनपदार्थत्वसादृश्यसम्बन्धेन, निष्काशौस्विरित्यत्र निष्क्रमणावधित्वसम्बन्धेन, गोरथ इत्यत्र स्वयुक्तत्वसम्बन्धेन पूर्वपदार्थस्योत्तरपदार्थेऽन्वयो बोध्यः । एवं च संसर्गतये • वार्थोक्तावपि सादृश्यादिप्रकारक बोधार्थमिवादिशब्दप्रयोगो दुर्वार इत्याशयेन शकते - नवेति ।
(२) प्रयोगनियमेति । अत्र नियमत्वं, अबाधत्वम् । भिन्नविषयत्वेन समासादिना न वाक्यबाध इतिभावः ।