________________
समासशक्तिनिर्णयः ।...
२८१
अत्र एवं राज्ञः पदार्थैकदेशतया, न तत्र शोभनस्येत्यादि।
तत्राऽवयवाऽर्थातिरिक्ताऽर्थवत्त्वाऽभावात् । वृत्तित्वसामानाधिकरण्येन तु रथन्तराऽऽदिशुद्धरूढे पङ्कजादियोगरूढे च कोशाऽऽदिसिद्धायाः समुदायशक्तरस्माभिरप्यभ्युपगमेन सिद्धसाधनात । शु.
यौगिकाचैत्रग्वादिसमुदाये शक्त्यभ्युपगमस्तु कोशाऽऽद्यनुक्तत्वासमासघटकप्रत्येकपदवृत्त्यैवोपपत्तेश्च हेय इति तदाभिसन्धिः । शक्तिकल्पनाऽनुपपत्यभावं तत्प्रयोजनतया दर्शयति-राजपुरुष इ. त्यादाविति ॥
न च सम्बन्ध एव लक्ष्योऽस्त्वेवं च व्याससमासयोः समानाकारबोधजनकत्वप्रवादोऽप्युपपत्स्यते । राजाऽऽदिसम्बन्धरूपलक्ष्या. ऽर्थस्योत्तरपदाऽर्थे आश्रयतयाऽन्वयेनैवोपपत्तौ सम्बन्धिनि लक्ष. णाऽभ्युपगमे प्रयोजनाऽभावश्चेति वाच्यम् । 'राजा पुरुषः' इत्यादा. वपि राजादिपदार्थस्य स्वस्वामिभावसम्बन्धनं पुरुषादावन्धयवार. णाय निपाताऽतिरिक्तनामाऽर्थनिष्ठाभेदाऽतिरिक्तसम्बन्धाऽवच्छिअप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्ययनिपाताऽन्यतरजन्योपस्थितेर्हेतुत्वस्यावश्यकत. या प्रकृते राजसम्बन्धरूपनामाऽर्थस्य प्रत्ययनिपाताऽन्यतराऽनुपस्थि. ते पुरुषादावन्वयाऽसम्भवात् निपातातिरिक्तत्वविशेषणात् 'चन्द्र इव मुखम्' इत्यादाविवपदार्थसादृश्यस्य नामार्थस्य प्रत्ययजन्योप. स्थित्यविषयमुखे निपाताऽतिरिक्तनामाऽर्थचन्द्रस्य तथोपस्थित्यवि. षये सादृश्येऽन्वयेऽपि न क्षतिः। अभेदाऽतिरिक्तसम्बन्धाऽवच्छि. प्रत्वस्य प्रकारतायां निवेशाच 'राजा पुरुष' इत्यादावभेदाऽन्वये. ऽपि न सा। - नच समस्यमानाऽतिरिक्तत्वेनाऽपि नाम्नो विशेषणीयत्वान्न प्रकृतेऽनुपपत्तिरिति वाच्यम् । गौरवात, क्वचिदगत्या सङ्कोचेऽपि सर्वत्र सङ्कोचस्याऽन्याय्यत्वाच्च । प्रकृते सम्बन्धिलक्षणाऽभ्युपगमरू. पगतिसत्त्वात् । निपातानां द्योतकत्वनये घटादिपदानां घटादि. प्रतियोगिकलाक्षिणकतयैवोपपत्ती निपातातिरिक्तत्वस्याप्रवेशाच्चेति भावः॥
*अत एवेति ॥ पूर्वपदस्य सम्बन्धिलाक्षणिकत्वादेवेत्यर्थः ॥
३६