SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २७९ किञ्चैवं सति घटाऽऽदिपदेष्वपि चरमवर्ण एव वाचकता. कल्पना स्यात्(१)। पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोग सम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेद् अत्राप्युदकपदमावश्रवणादर्थप्रत्ययापत्तिस्तुल्यत्यन्यत्र विस्तरः । एवञ्च, अषष्ठयर्थबहुव्रीहौ, व्युत्पत्यन्तरकल्पना उक्तयुक्तः। अखत्या शक्त्यन्तरकल्पनेत्यर्थः ॥ क्लुप्तन्याग इत्यस्य क्लुप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति ॥ तत् कि, सर्वत्र समासे शक्ति न कल्पयेरिति वाक्यार्थः ॥ यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः । न समासे नन्वेकपदस्थाsन्याऽर्थप्रतिपादकत्वे तात्पर्यप्राहकतया पदस्या. प्युपयोगित्वेन समुदायस्य विशिष्टाऽर्थप्रतिपादकत्वमाषिकलमत आह-*किश्चैवमिति* ॥ समासस्थचरमपदस्यैव लक्षकत्वे सतीत्य. र्थः ॥ इष्टापत्तावाह-*एवं सतीति* ॥ चरमवर्णस्य वाचकरवे स. तीत्यर्थः । *अत्राऽपि* ॥ प्राप्तोदकादावतीत्यर्थः ॥ *आपत्तिरि. ति* ॥ आपाधव्यतिरेकनिर्णयकालिकाऽऽपाचव्याप्याऽऽपादकताशा. नसत्वादिति भावः॥ __ ननूदकपदमात्रश्रवणान्न लक्ष्यार्थबोधः, तदानी लक्षणाकल्पि. कायास्तात्पर्यग्राहकवपदोपस्थेितरभावाद्, अत आह-*अन्यत्रे. ति* ॥ भूषण इत्यर्थः॥ *विस्तर इति* । उत्तरपदलक्ष्याऽर्थ प्रकृत्यर्थत्वाऽभावेन तत्र प्रत्ययाऽर्थाऽनन्धयाऽऽपत्तिरित्यादि तत्रोक्तम् ॥ *व्युत्पत्तीति * ॥ व्युत्पत्तित्यागः प्रकृते प्रतिज्ञाहानिरेव ॥ व्यपेक्षावादिन इति समर्थसूत्रे "परस्पराऽन्वययोग्यत्वरूपसामर्थ्यमेव च्यपेक्षा" इति वादिन इत्यर्थः ॥ *न समासे शक्तिरिति* ॥ समासे राजपुरुषादिसमुदाय विशिष्टशक्तिर्नेत्यर्थः ॥ समाससंशाप्रयोजकत्वं क्लप्तप्रत्येकपदवृत्त्यतिरिक्ते नास्तीति यावत् । संसृष्टार्थमिति ... (१) चरमवर्णस्यैव प्रत्ययाव्यवहितत्वात् लाघवाच तेनैव पाच. कता कल्पना स्यादिति । -
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy