________________
दर्पणसहिते वैयाकरणभूषणसारे प्रसङ्गात् । नच परस्परं तात्पर्यग्राहकत्वादेकस्यैवैकदा लक्षणा, न द्वयोरिति, न बोधावृत्तिरिति वाच्यम् । एवमपि विनिगमना. विरहतादवस्थपेन लक्षणाया असम्भवात् ।
नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् , प्रत्ययानां सन्निहितपदार्थगतस्वार्थवोधकत्वव्युत्पत्तेरिति वाच्यम् । एवं हि बहुव्रीह्यमम्भवापत्तेः । “अनेकमन्यपदार्थे” ( पा० सू० २ । २ । ४) इत्यनेकमुबन्तानामन्यपदार्थप्रतिपादकत्वेन ततिधानात् ।
तीति * ॥ बोध्यमानस्य स्वामिनो द्वेधा भानापरीरित्यर्थः ॥
*विनिगमनाविरहेति* ॥ चित्रपदं तात्पर्यग्राहकमुत गोपद. मित्यकतरपक्षपातियुक्तिविरहतादवस्थ्येनेत्यर्थः ॥ *असम्भवादि. ति* ॥ एकतरपदे लक्षणाया असम्भवादित्यर्थः। पदद्वये लक्षणा. याम् उक्तदोष इति भावः । प्रत्ययार्थाऽनुपपत्तिरेव उत्तरपदे लक्षणायां विनिगमिका भविष्यतीत्याशय निराचष्टे-*नचेति ॥ *एवं हीति* ॥ उत्तरपदस्यैवाऽन्यपदार्थलक्षकत्वे इत्यर्थः ॥ बहुवी. घसम्भवे हेतुमाह- अनेकमिति* ॥ तदविधानादित्यर्थः ॥ ___ अयम्भावः । वृत्तेर्विशिष्टाऽर्थकत्वं न शास्त्रैकगम्यम् । “अचतु. र" इत्यादावर्थाऽनादेशनात् । किन्तु लौकिकव्यवहारगम्यम् । “स्व. भावत एव तेषां शब्दानामध्यर्थेवभिनिविष्टानां निमितत्वेनान्वाख्यानं क्रियते” इति समर्थसूत्रभाष्यात् । “अनेकमन्यपदार्थ" (पा० स० २।२।२४) "चार्थे द्वन्द्वः” (पा० सू०२।२।२९) इत्यादीनामनेकप्रथमान्तमन्याऽर्थप्रतिपादकं बहुव्रीहिसंशकं भवति, चाऽर्थे व. तते यः प्रथमाऽन्तसमुदायः स द्वन्द्वसंज्ञको भवतीति क्रमेण लो. कसिद्धार्थाऽनुवादेन बहुव्रीह्यादिसंशाविधायकत्वमात्रम् | अर्थस्याऽपि विधाने वाक्यभेदापत्तेः। स्वसमानाऽर्थकवाक्यानिवृत्तये विभाषाऽधिकारोऽपि विधेयः स्यात् । एवञ्च सुबन्तसमुदायस्या. ऽन्यार्थप्रतिपादकत्वे, कथं बहुवीहिः स्यादिति ।